________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
]
अङ्गनाकर्षणाधिकारः ६।
३१ 'इष्टाङ्गनाकर्षणम्' इष्टप्रमदाजनाकृष्टिम् । 'आहुः' ब्रुवन्ति । के ? 'आद्याः' पूर्वाचार्याः। कम् ! 'यन्त्रम्'। किविशिष्टम् ? 'धत्तुरताम्बूलविषादिलेल्यम्' उन्मत्तरसः तन्मुखताम्बूलरसः 'विष' शृङ्गीविषं आदिशब्दाद् उद्वर्तनादिभिः 'लेख्यम्' इत्यादिद्रव्यलेखनीयम् । 'यन्त्रम्' कथितयन्त्रम् । क! 'पटे' वस्त्रे । 'खपरे' नूतनखपरे। 'ताम्रपत्रे' शुल्वपत्रे। 'दिनत्रये' त्रिदिने । 'दीपशिखाग्नितप्तम्' प्रदीपशिखाज्वालातप्तम् ॥
नँ ही हृत्कमले गजेन्द्रवशकं सर्वाङसन्धिष्वपि
मायामाविलिखेत् कुचद्वितययोर्दा योनिदेशे तथा। क्रोकारैः परिवेष्टय मन्त्रवलयं दद्यात पुरं चानलं
___तद्वाह्येऽनिलभूपुरं त्रिदिवसे दीपाग्निनाऽऽकर्षणम् ॥४॥ ॐ ह्री हृत्कमले' हृदयकमलमध्ये ॐ ह्रीं इति बीजाक्षरं विलिखेत् । 'सर्वाङ्गसन्धिषु' सर्वशरीरसन्धिषु । 'अपि' तथा। 'गजेन्द्रवशकं' अङ्कुशम् । 'कुचद्वितययोः' स्तनद्वितययोः । 'मायामाविलिखेत्' ह्रींकारमाविलिखेत् । 'तथा' तेन प्रकारेण । 'योनिदेशे' योनिप्रदेशे। 'य्यू यूं इति बीजम्। 'क्रोकारैः परिवेष्ट्य' तद्रूपबहिःप्रदेशे क्रोकारैः समन्तात् वेष्टयित्वा । 'मन्त्रवलयं दद्यात्' तत्क्राकारवेष्टनानन्तरं 'ॐ नमो भगवति ! कृष्णमातङ्गिनि !' इत्यादि मन्त्रवेष्टनं दद्यात्। 'पुरं चानलम्' तन्मन्त्रवलयबहिः अग्निमण्डलं दद्यात् । 'तबाह्येऽनिलभू पुरम्' तदग्निमण्डलबहिःप्रदेशे वायुमण्डलं तदुपरि भूमण्डलं दद्यात् । 'त्रिदिवसे दीपाग्निनाऽऽकर्षणम्' दिनत्रयमध्ये प्रदीपशिखाग्निना आकर्षणं स्यात् ।।
वलयमन्त्रोद्धारः-ॐ नमो भगवति ! कृष्णमातङ्गिनि ! शिलावल्कलकुसुमरूपधारिणि । किरातशबरि ! सैर्वजनमोहिनि ! सर्वजनवशंकरि ! हा ही हूँ हो हः अमुकां मम वश्यावृष्टि कुरु कुरु संवौषट् ।।
पत्रे स्त्रीरूपमालिख्यमूर्ध्वपादमधःशिरः ।
ब्रह्मादिराजिकाधूमभानुदुग्धेन लेखयेत् ॥५॥ 'पत्रे' ताम्रपत्रे। 'स्त्रीरूपम्' इष्टाङ्गनारूपम् । 'आलिख्यं' लिखित्वा । कथम् ? 'ऊर्ध्वपादमधःशिरः' पादावूर्व शिरोऽधः कृत्वा लिखेत् । 'ब्रह्मादि' ब्रह्मादि-पलाशनगधत्तमिति अन्ये वदन्ति ब्रह्माविष्णुरुद्रेति त्रिपुरुषम् । 'राजिका' गौरसर्षपाः । 'धूम' गृहधूमम् । 'भानुदुग्धेन' अर्कक्षीरेण लेखयेत् । एतैः द्रव्यैः कथितस्त्रीरूपं यन्त्रं लेखयित्वा दीपशिखानौ तापयेत् इत्यर्थः॥
अग्निपुटकोष्ठमध्ये कलावृतं नाथमङ्कशनिरुद्धम् ।
कोष्ठेषु प्रणवाङ्कुशमायारतिनाथररश्च ॥६॥ १ वेषधारि इति ख पाठः २ सर्वजनमनोमोहिनी इति ख पाठः ३ लेपयुत् इति ख पाठः ।
For Private And Personal Use Only