________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे श्लोकाः ६७___'अग्निपुटकोष्ठमध्ये शिखिमण्डलद्वयसम्पुटकोष्टमध्ये। 'कलावृतं' षोडशकलाभिरावृतम्। कम् ? 'नाथम्' भुवननाथ ह्रींकारम् । कथम्भूतम् ? 'अङ्कुशनिरुद्धम्' तदह्रींकारोभयपार्श्वे क्रोंकारद्वयरुद्धम् । 'कोष्ठेषु' तदनिपुटषट्कोणेषु । 'प्रणवाङ्कुशमायारतिनाथरंरश्च' प्रथमकोष्ठे 3, द्वितीयकोष्ठे की, तृतीयकोष्ठे ही, चतुर्थकोष्ठे क्ली, पञ्चमकोष्ठे रं, षष्टकोष्ठे रः॥
कृष्णशुनकस्य जलाशल्ये प्रविलिख्य मैनुजरक्तेन ।
खदिराङ्गारैस्तप्ते सप्ताहादानयत्यबलाम् ॥७॥ 'कृष्णशुनकस्य' असितभषणस्य। 'जङ्काशल्ये' तच्छुनकदक्षिणजङ्गास्थि । 'प्रविलिख्य' प्रकर्षेण लिखित्वा । केन ? 'मनुजरक्तेन' नररुधिरेण । 'खदिराझारैः' खदिरकाष्टाङ्गारैः। 'तप्ते' तापिते सति । 'सप्ताहात्' सप्तदिनमध्ये। 'आनयति' समानयति । काम् ? 'अबलाम्' वनिताम् ॥
अथवा रजस्वलाया वस्त्रे संलिख्य जलजनागिन्याः।
पुच्छं विधाय वर्तिं तद्दीपादानयेन्नारीम् ॥८॥ 'अथवा' अन्येन प्रकारेण वा। 'रजस्वलायाः' पुष्पवत्याः । 'वस्त्रे' तद्वस्त्रे । 'संलिख्य 'प्राकशुनकास्थिलिखिताग्निपटकोष्ठेत्यादि यन्त्रं सम्यग लिखित्वा । 'जलजनागिन्याः' जलोद्भवसर्पिण्याः। 'पुच्छं विधाय वर्ति' नागिन्याः पुच्छं गृहीत्वा तद्वस्त्रमध्ये निक्षिप्य वर्ति कृत्वा । 'तद्दीपात्' तद्वर्तिप्रबोधितदीपात् । 'आनयेत्' समानयेत् । काम् ! 'नारीम्' वनिताम् ॥
हीकारमध्ये प्रविलिख्य नाम षट्कोणचक्रं बहिराविलेख्यम्।
कोणेषु तत्त्वं त्रिषु चोर्ध्वकोणद्वये पुनर्य्यमधरों लिखेच ॥९॥ 'ह्रींकारमध्ये' भुवननाथाधिपमध्ये । 'प्रविलिख्य' प्रकर्षेण लिखित्वा। किम् ? 'नाम' देवदत्तनाम । 'षट्कोणचक्रम्' षट्कोणम्। 'वहिः' तद्हींकाराद् बहिः । 'आलेख्य' समन्तादालेख्यंम् । 'कोणेषु' षट्कोणेषु । 'तत्त्वं' ह्रींकारम् । 'त्रिषु च' अधोगतपाईकोणद्वयम् , ऊर्ध्वगतकोणमेकम् , एवं कोणत्रये हीकार लिखेत् । 'ऊर्ध्वकोणद्वये' पार्श्वकोणद्वये । 'पुनः' पश्चात् । 'यू' यू यूं इति लिखेत् । 'अधरों लिखेच्च', अधोगतमध्यकोणे न लिखेत् । 'चः' समुच्चये ॥
पाशाङ्कशौ कोणशिखान्तरस्थौ मन्त्रावृतं वायुपुरं च बाह्ये ।
आकृष्टिमिष्टप्रमदाजनानां करोति यन्त्रं खदिराग्नितप्तम् ॥१०॥ 'पाशाङ्कशौ कोणशिखान्तरस्थों' षट्कोणचक्रकोणेषु पाशाङ्कुशौ औ को। 'मन्त्रावृतं' षट्कोणचक्रबहि वक्ष्यमाणमन्त्रेणावेष्टितम् । 'वायुपुरं च बाह्ये' तन्मन्त्रवलयबहिःप्रदेशे वायुमण्डलम् । 'चः' समुच्चये । 'आकृष्टि'
आकर्षणम। कासाम ? 'इष्टप्रमदाजनानां' स्वेप्सितस्त्रोणाम । 'करोति' कुरुते। किं तत? 'यन्त्रम' कथितषटकोणयन्त्रम् । किविशिष्टम् ? 'खदिराग्नितप्तम् खदिरकाष्टाग्निना तापितम् ॥
१ग पस्तके 'भूजरक्तन' इति पाठो दृश्यते, टिप्पण्यां स खररक्तेन इति तस्याथों निर्दिश्यते ।
For Private And Personal Use Only