________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽङ्नाकर्षणपरिच्छेदः ।
द्विरेफयुक्तं लिख मान्तयुग्मं षष्ठस्वरोकारयुतं सबिन्दु ।
स्वरावृतं पञ्च पुराणि वह्ने रेफात् क्रमात् क्रोमथ ही च कोणे ॥१॥ 'द्विरेफयुक्त' रेफद्वयसंयुक्तम् । 'लिख' लेखय । किं तत् ! 'मान्तयुग्मम्' मकारस्यान्तो मान्तो यकारः, तस्य युग्ममिति यकारयुगलम् । किविशिष्टम् ? 'षष्ठस्वरौकारयुतम्' षष्ठस्वरश्च औकारश्च षष्ठस्वरोकारौ ताभ्यां युतं षष्ठस्वरोकारयुतम् , ऊकार-औकारसंयुक्तम् । पुनः कथम्भूतम् ? 'सबिन्दु' अनुस्वारेण संयुक्तम् । एवं यूं यौं । पुनरपि कथम्भूतम् ? 'स्वरावृतम्' तब्दीजबहिःप्रदेशे षोडशकलाभिरावेष्टयम् । 'पञ्चपुराणि वह: आवृतकलावेष्टनबहिःप्रदेशे पञ्चवह्निपुराणि। 'रेफात् फ्रमात् क्रोमथ ही च कोणे' रेफाक्षरसकाशाद् यथानुकमेण क्रोमित्यक्षरम् । 'अर्थ' क्रोकारादनन्तरम् । 'ही' हीमिति बीजम्। 'चः' समुच्चये। क्व ? कोणे ॥
क्लैंकाररुद्रं च तथा इसक्ली ब्लँकाररुद्धं च सौस्तथैव ।
क्रमेण दिक्षु त्रिषु चाम्बिकाया मन्त्रं बहिर्वह्निमरुत्पुरं च ॥२॥ 'क्लेकाररुद्धं च' क्लैंकारद्वितयरुद्धम् । 'तथा हस्क्ली' तथा पूर्वोक्ताक्षरविधानेन हस्कली इति बीजाक्षरम् । 'ब्लंकाररुद्धं च' ब्लकारयुगलरुद्धं च । 'हसौ तथैव' हौ इति बीजाक्षरमपि । 'कमेण ' प्रथममण्डलकोणत्रये ही इति वीजम् , द्वितीयमण्डलकोणत्रये क्रों इति बीजम् , तृतीयमण्डलकोणत्रये ही इति बीजम् , चतुर्थमण्डलकोणत्रये क्लैकाररुद्धं हस्क्ली इति बीजम् , पञ्चममण्डलकोणत्रये १ब्लॅकाररुद्धं हसौः इति बीजम् , एवमनेन क्रमेण वह्निपञ्चपुराणि लेखनीयानि। 'दिक्षु त्रिषु' तन्मण्डलत्रिदिशासु 'मन्त्रं वक्ष्यमाणमन्त्रम् । कस्याः! 'अम्बिकायाः' अम्बिकाथक्षिदेव्याः। 'बहिः' तन्मन्त्रबाह्ये। 'हिमरुत्पुरै' अमिमण्डल वायुमण्डल च। अम्बिकामन्त्रोद्धार:
ॐ नमो भगवति ! अम्बिके ! अम्बालिके! यक्षिदेवि! यूँ यौँ व्लै हुस्क्लीं ब्लं सौः २र र र रां रां नित्यक्लिन्ने ! ३मदनद्रवे ! मदनातुरे ! ह्रीं क्रों अमुकां मम वश्याकृष्टि कुरु कुरु संवौषट् ॥
इष्टाङनाकर्षणमाहुराद्या धत्तूरताम्बूलविषादिलेख्यम् । यन्त्रं पटे खर्परताम्रपत्रे दिनत्रये दीपशिखामितप्तम् ॥३॥
१ ब्लैकार इति ख पाठः। २ रः रः रः रः रां रां इति ख पाठः । ३ मदद्रवे इति ख पाठः । ४आकृष्टिमिष्टप्रमदाजनानां करोति यन्त्र खदिराग्नितप्तम् । इति श्लोकार्धमधिकं दीपशिखाग्नितप्तमित्यस्यानन्तरं पठ्यते ग पुस्तके | तट्टीकाऽपि दृश्यते।सा यथा-'आकृष्टि' आकर्षणम् । कासाम् ? ' इष्टप्रमदाजनानां 'स्वकीयेप्सितानामङ्गनानाम् । 'करोति' कुरुते । किं तत् ? 'यन्त्र' एतत् कथितयन्त्रम् । किविशिष्टम् ? 'खदिराग्नितप्त' खदिरकाष्टाङ्गारतप्तम् ॥
For Private And Personal Use Only