________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५।२२]
क्रोधादिस्तम्भनयन्त्राधिकारः ५। कन्याकर्तितसूत्रं दिवसेनैकेन तत्पुनीतम् ।।
तस्मिन् हरितालाद्यैः कोरण्टकलेखिनीलिखितम् ॥२०॥ 'कन्याकर्तितसूत्र' कुमार्या कर्तितं सूत्रम् । 'तत् ' कुमार्या कर्तितसूत्रम् । ‘दिवसेनैकेन पुनवींतम्' पुनरपि एकेन दिवसेन वणितम् । 'तस्मिन् हरितालाद्यः' तस्मिन् वस्त्रे हरितालादिपीतद्रव्यैः । 'कोरण्टकलेखिनीलिखितम्' कोरण्टकलेखिन्या लिखितम् ।।
पद्मावत्याः पुरतः पीतैः पुष्पैः पुरा समभ्यर्च्य ।
यन्त्रपटं बध्नीयात् प्रख्याते चान्तरे स्तम्भे ॥२१॥ 'पद्मावत्याः पुरतः' पद्मावतीदेव्यग्रतः। 'पीतैः पुष्पैः पुरा समभ्यय॑' पीतवर्णप्रसूनः पूर्व सम्यक् पूजयित्वा । 'यन्त्रपट' एतल्लिखितयन्त्रपटम् । 'बध्नीयात्' निबध्नीयात् । 'प्रख्याते' विख्याते। 'चः' समुच्चये। 'आन्तरे स्तम्भे' अभ्यन्तरस्तम्भे ॥
तं दृष्टा दूरतरान्नश्यन्ति भयेन विह्वलीभूताः।
विरचितसेनाव्यूहात् सङ्ग्रामेऽशेषरिपुवर्गाः ॥२२॥ 'तं दृष्टा' स्तम्भे निबद्धं यन्त्रपटं दृष्ट्वा । 'दूरतरान्नश्यन्ति' अतिदूगदेव 'नश्यन्ति' पलायन्ते। 'भयेन विह्वलीभूताः' भीत्या विकलीभूताः । कस्मात् ? 'विरचितसेनान्यूहात्' विशेषेण रचितो विरचितः, विरचितश्चासौ सेनाव्यूहश्च विरचितसेनाव्यूहः तस्मात् । क्व ? 'सङ्कामे ' रणभूमौ । के ? ' अशेषरिपुवर्गाः' इतरशत्रुसमूहाः। नश्यन्तीति सम्बन्धः ॥
इत्युभयभाषाकविशेखरश्रीमल्लिषेणसूरिविरचिते भैरवपद्मावतीकल्पे स्तम्भनयन्त्राधिकारः
पञ्चमः परिच्छेदः ॥५॥
For Private And Personal Use Only