________________
Shri Mahavir Jain Aradhana Kendra
२८
www.kobatirth.org
सविवरणे भैरवपद्मावतीकल्पे
[श्लोकाः ५।१६
“रिपुनामान्वितमान्तम्' शत्रोर्नामयुक्तं 'मान्तम्' यकारम् । 'मलवरयूंकारसंयुतं ' मश्च लव वश्व र यूंकारश्च मलवरयूंकाराः तैः संयुतम् । कम् ? 'टान्तम्' ठकारम् । एवं ठम्यूँ इति बीजं, यकारबहिः प्रदेशे 1 ' तवाये भूमिपुरं ' तत्पिण्डबाये पृथ्वीमण्डलम् | 'त्रिशूलभूतोप्रमृगवेष्ट्यम्' तत्पृथ्वीमण्डलबाह्ये त्रिशूलनैकभूतकूरमृगजातैः 'वेष्टथं' परिवृतम् ॥
प्रतिरूपहस्तस्त्र द्वैर्निहन्यमानारिरूपपरिवेष्टधम् ।
शत्रोर्नामान्तरितं समन्ततो वेष्टयेत् पिण्डैः ॥ १६॥
うら
— प्रतिरूपहस्तखङ्खैः ’ प्रतिशत्रुहस्तकृपाणै: । ' निहन्यमानारिरूपपरिवेष्टयं
निहन्यमानैः निःशेषेण
हन्यमानैः अरिरूपैः प्रतिशत्रुरूपैः परिवेष्ट्यम् । 'शत्रोर्नामान्तरितं' वैरिनामान्तरितम् । 'समन्ततः ' शत्रुप्रति - शत्रुनाम्नोर्बाह्ये परितः । 'वेष्टयेत्' वेष्टनं कुर्यात् । कैः ? 'पिण्डैः' नामान्तरितठकारपिण्डैः ॥ प्रतिरिपुवाजिमहागजनामान्तरितं समन्ततो मन्त्रम् । विलिखेदोडूहाँक्लैग्लौ स्वाहा टान्तयुग्मान्तम् ॥१७॥
'प्रतिरिपुः' प्रतिशत्रुः तस्य ' वाजिमहागजनामान्तरित' पट्टाश्वगजनामान्तरितम् । 'समन्ततः' नामान्तरितठपिण्डबाह्ये परिसमन्तात् । 'मन्त्र' मन्त्रवलयम् । 'विलिखेत्' विशेषेण लिखेत् ।
मन्त्रोद्धारः---3 हूँ ही क्लै ग्लौ स्वाहा ठ ठ देवदत्तस्य पट्टाश्व, उ हूँ हो हैं ग्लौं स्वाहा ठठ देवदत्तस्य पट्टगजे हूँ ह्रीं इत्यादि मन्त्रेण समन्ततो वेष्टयेत् ।
Acharya Shri Kailassagarsuri Gyanmandir
वेष्टनमन्त्रोद्धारः कथ्यते - उ हो भैरवरूपधारिणि ! चण्डशूलिनि ! प्रतिपक्षसैन्यं चूर्णय चूर्णय घूम्र्म्मय धूम्र्म्मय भेदय भेदय प्रस ग्रस पच पच खादय खादय मारय मारय हुँ फट् स्वाहा ||
मन्त्रेण वेष्टयित्वाऽनेन ततोऽरातिविग्रहो लेख्यः ।
अष्टासु दिक्षु बहिरप माहेन्द्रं मण्डलं दद्यात् ॥ १८ ॥
'मन्त्रेण वेष्टयित्वाऽनेन' अनेन कथितमन्त्रेण वेष्टितं कृत्वा । 'ततः ' तन्मन्त्रवेष्टनाद् बहिः प्रदेशे । 'अरातिविग्रहो लेख्यः शत्रुरूपं लेख्यम् । क्व ? 'अष्टासु दिक्षु' प्राच्याद्यष्टदिशासु । 'बहिरपि' विग्रहबहिः प्रदेशेऽपि । 'माहेन्द्रं मण्डलं' इन्द्रमण्डलम् | 'दद्यात्' देयम् ॥
प्रेतवनात् सञ्चालितमृतकमुखोज्झितपटेऽथवा विलिखेत् । कृष्णाष्टम्यां युद्ध्वा त्यक्तप्राणस्य सङ्ग्रामे ॥ १९ ॥
' प्रेतवनात् ' श्मशानभूमेः सकाशात् । 'संचालितमृतकमुखोज्झिप्ततपटेऽथवा विलिखेत्' सम्यगुचलितमृतकमुखोज्झितपटेऽथवा प्रेतस्य प्रच्छादितवस्त्रे विलिखेत् । अथवा 'कृष्णाष्टम्यां युद्ध्वा त्यक्तप्राणस्य संग्रामे ' कृष्णाष्टम्यां कृष्णचतुर्दश्यां 'सङ्ग्रामे' रणाङ्गणे युद्ध्वा कृतप्राणपरित्यागपुरुषस्य वस्त्रे वा विलिखेत् ।।
For Private And Personal Use Only