________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५।१५] क्रोधादिस्तम्भनयन्त्राधिकारः ५।
२७ फलके' काप्टकृतफलके। 'शिलातले वा' अथवा पाषाणपट्टे वा। 'हरितालमनःशिलादिमिः' हरितालमन:शिलादिपीतद्रव्यैः। ‘लिखितं' लिखितं सत्। किं करोति ? 'कोपगतिसैन्यजिह्वास्तम्भ' कोपस्तम्भं गतिस्तम्भ सैन्यस्तम्भं जिह्वास्तम्भम् । “विदधाति' विशेषेण करोति । कथम् ? 'विधियुक्तम्' यथाविधानयुक्ते सति ॥
॥ वार्तालीयन्त्रोद्धारः समाप्तः ॥
नाम ग्लौमुर्तीपुरं वं पं ग्लौंकारवेष्टितं कृत्वा ।
हीकारचतुर्वलयं स्वनामयुक्तं ततो लेख्यम् ॥११॥ 'नाम' देवदत्तनाम । 'ग्लो' तन्नामोपरि ग्लौकारम् । 'उर्वीपुर' तदुपरि पृथ्वीमण्डलम् । 'वं पं ग्लौंकारवेष्टितं कृत्वा' उर्वीपुरबहिःप्रदेशे 'व' वंकार, तस्योपरि 'पं' पंकारं, पंफारोपरि ग्लौंकारं, एतैरक्षरत्रयैर्वेष्टनं कारयित्वा। हौंकारचतुर्वलयम्। कथम्भूतम् ? 'स्वनामयुक्तम् ' तद् होकार स्वकीयनामान्वितम् । 'ततः' तस्मात् ह्रींकारात् । 'लेख्यं लेखनीयम् ॥
* उच्छिष्टपदस्याने स्वच्छन्दपदमा लिखेत् ।
ततश्चाण्डालिनि ! स्वाहा टान्तयुग्मकवेष्टितम् ॥१२॥ '3'3 इत्यक्षरम् । 'उच्छिष्टपदस्य' उच्छिष्टेतिपदं तस्य । 'अग्रे' उच्छिष्टपदस्याग्रे। 'स्वच्छन्दपदं' स्वच्छन्देतिपदम् । 'आलिखेत्' समन्तात् लिखेत् । 'ततः चाण्डालिनि ! स्वाहा' ततः स्वच्छन्दपदाच् चाण्डालिनि ! स्वाहा इति । एवं मन्त्रोद्धारः- उच्छिष्ट स्वच्छन्द चाण्डालिनि! स्वाहा ॥ इति मन्त्रविन्यासः ॥ 'टान्तयुग्मकवेष्टितम् ' ठकारद्वयेन वेष्टितम् ।।
पृथ्वीवलयं दत्त्वा पुरोक्तमन्त्रेण वेष्टयेद् बाह्ये।
रजनीहरितालाद्यैर्भूर्ये विधिनाऽन्वितो विलिखेत् ॥१३॥ 'पृथ्वीवलयं दत्त्वा' टान्तयुग्मबाह्ये पृथ्वीमण्डलं दत्त्वा । 'पुरोक्तमन्त्रेण' पूर्वोक्त '3 उच्छिष्ट' इत्यादिमन्त्रेण । 'वेष्टयेत्' वेष्टनं कुर्यात्। 'बाह्ये' पृथ्वीमण्डलबहिःप्रदेशे। 'रजनीहरितालायैः' हरितालहरिदागोदन्तादिपीतद्रव्यैः । क ? 'भूर्ये' भूर्यपत्रे । 'विधिना' यथाविधानेन । 'अन्वित:' युक्तः। 'विलिखेत्' विशेषेण लिखेत् ॥
तत्कुलालकरमृत्तिकावृतं तोयपूरितघटे विनिक्षिपेत् ।
पार्श्वनाथमुपरिस्थमर्चयेद् दिव्यरोधनविधानमुत्तमम् ॥१४॥ 'तत्' तद् यन्त्रम् । 'कुलालकरमृत्तिकावृतम्' कुम्भकारकराप्रमृदा वेष्टितम् । 'तोयरितघटे' जलपरिपूर्णनवघटे। 'विनिक्षिपेत् निदध्यात् । 'श्रीपार्श्वनाथं' श्रीपार्श्वभट्टारकम् । कथम्भूतम् ? 'उपरिस्थं' तत्कुम्भस्योपरि स्थितम् । 'अर्चयेत्' पूजयेत् । 'दिव्यरोधनविधानम्' दिव्यस्तम्भकरणम्। 'उत्तम' श्रेष्ठम् । दिव्यस्तम्भनयन्त्रमिदम् ॥
रिपुनामान्वितमान्तं मलवरयूंकारसंयुतं टान्तम् । तद्बाह्ये भूमिपुरं त्रिशूलभूतोग्रमृगवेष्टयम् ॥१५॥
For Private And Personal Use Only