________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६
सविवरणे भैरवपद्मावतीकल्पे
[ श्लोकाः ५/८
'वार्ताली मन्त्रहृतं ' वज्राणां बहिः प्रदेशे वार्तालीमन्त्रेण वेष्टितम् । 'बाह्ये' मन्त्रावेष्टनबहिः प्रदेशे । 'अष्टसु दिक्षु' अष्टासु दिशासु । 'विन्यसेत्' विशेषेण स्थापयेत् । कथम् ? 'क्रमशः ' क्रम परिपाटया । 'मलवरयूंकारयुतान्' मव लश्च वच रथ यूंकारश्च मलवरयूंकाराः तैर्युताः मलवरयूंकारयुताः तान् मलवरयूंकारयुतान् । 'क्षमठसहपरान्तलान्तान्' क्षश्च मश्व ठश्व सश्च हश्च पश्च लश्च वश्व, 'रान्तो' रकारस्यान्तो लकारः लश्व, 'लान्तो' लकारस्यान्तो वकारः वच, क्षमठसहपरान्तलान्ताः तान् । एवं यूँ यूँ यूँ यूँ यूँ एतानष्ट पिण्डान् । वार्तालीमन्त्रोद्धारः -
वार्तालि ! वराह ! वराहमुखि ! जम्भे ! जम्भिनि ! स्तम्भे ! स्तम्भिनि ! अन्धे ! अन्धिनि ! रुन्धे ! रुन्धिनि ! सर्वदुष्टप्रदुष्टानां क्रोधं लिलि मर्ति लिलि गतिं लिलि १ जिह्वां लिलि ३२ ठः ठः ठः । अयं वार्तालीमन्त्रः ॥
बाह्येऽमरपुरपरिवृतमङ्कुशरुद्धं करोतु तद् द्वारम् ।
उक्षेशमन्त्र वेष्टयं पृथ्वीपुर सम्पुटं बाह्ये ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
'बाह्ये' तत्पिण्डाष्टकबहिःप्रदेशे । 'अमरपुरपरिवृतम्' इन्द्रपुरेण समन्तादावृतम् । 'अङ्कुशरुद्धं करोतु तद्द्वारम्' तद् इन्द्रपुरं चतुर्द्वारोभयपार्श्वे अङ्कुशः कोकारः तेन रुद्धं कुर्यात् । 'उक्षेशमन्त्रवेष्टयम्' तत्पुरबहिःप्रदेशे उक्षा ऋषभस्तस्य ईशः स्वामी श्री ऋषभनाथः तस्य मन्त्रः तेन उक्षेशमन्त्रेणावेष्टयम् । 'पृथ्वीपुरसम्पुटं बाह्य' । उक्षेशमन्त्रवलयबाह्ये पृथ्वीमण्डलसंपुटं कुर्यात् । उक्षेशमन्त्रो द्वारः -
ॐ नमो ३भयवदो रिसहस्स तस्स पडिनिमित्तेण चरणपणति इंदेण भणामइ यमेण ५ उग्घाडिया जीहा महालया खीलिया जो मंभिसइ जो मं हसइ दुट्टदिट्ठीए वज्जसंखिलाए देवदत्तस्स मणं हिययं कोहं जीहा खीलिया सेलखिलाए ल ल ल ल७ ठ ठ ठ ठ ।। उक्षेशमन्त्रोऽयं, प्राकृतमन्त्रः ॥
कोणेष्वष्टसु विलिखेद् वार्तालीमन्त्रभणितजम्भादीन् । ठद्वितयं धरणीपुरमीदृशमिदमालिखेत् प्राज्ञः ॥ ९ ॥
'कोणेष्वष्टसु' उक्षेशमन्त्रवलयबाहिरष्टसु दिशासु । 'विलिखेत्' विशेषेण लिखेत् । कान् ? ' वार्तालीमन्त्रभणितजम्भादीन् ' वार्तालीमन्त्राभ्यन्तरे कथितजम्भाद्यष्टदेवताः । ' जम्भे ! स्वाहा, जम्भिनि ! स्वाहा, स्तम्भे ! स्वाहा, उ स्तम्भिनि ! स्वाहा, अन्धे ! स्वाहा, अन्धिनि ! स्वाहा, उ रुन्धे ! स्वाहा, रुन्धिनि ! स्वाहा, इत्यष्ट देवताः प्राच्याद्यष्टदिशासु क्रमेण स्थाप्याः । 'ठद्वितयं' जम्भादिदेवीबहिः प्रदेशे ठकार द्वितयम् । 'धरणीपुरम् ' ठकारबहिःप्रदेशे पृथ्वीमण्डलम् | 'ईदृशं' अनेन कथितप्रकारेण | 'इदं' एतद्वातल्यभिधानं यन्त्रम् । 'आलिखेत्' समन्ताद् लिखेत् । कः ? ' प्राज्ञः ' विद्वान् ॥
फलके शिलातले वा हरितालमनः शिलादिभिर्लिखितम् । कोपगतिसैन्यजिह्वास्तम्भं विदधाति विधियुक्तम् ॥ १० ॥
१ गति लिलि इति ख पाठः । २ ठः ठः ठः ठः ठः क्राँ ह्रीँ नमः स्वाहा इति ख पाठः । ३ भगवतो इति ख पाठ: । ४ पन्नत्ति इति ख पाठः । ५ उप्पाडिया इति ख पाठः । ६ हसइ जो वाचाहेर इति ख पाठः । ७बंध बंद ठः ठः ठः को हीं नमः इति ख पाठः ।
For Private And Personal Use Only