________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७] क्रोधादिस्तम्भनयन्त्राधिकारः५ ।
२५ ____ 'नाम' देवदत्तनाम । 'ग्लौं देवदत्तनामोपरि ग्लौकारम् । 'खान्तपिण्ड' खकारस्यान्तो गकारः स चासो पिण्डश्च खान्तपिण्डः गम्व्यू इति पिण्डः तम् । 'वसुदलसहिताम्भोजपत्रे विलिख्य' अष्टदलान्वितपद्मपत्रे विशेषेण लिखित्वा। 'तत्पिण्डं' तत्कर्णिकालिखितरव्यू इतिपिण्डम् । 'तेषु' अष्टपत्रेषु । 'योज्यम्' योजनीयम्। 'बहिरपि' तदष्टदलकमलबहिःप्रदेशे। 'वलयम्'। केन ? 'दिव्यमन्त्रेण' विशिष्टमन्त्रेण। 'कुर्यात्' करोतु । 'टान्तं' ठकारम्। कथम्भूतम् ? 'भूमण्डलान्तं' पृथ्वीमण्डलान्तःस्थितम्। दिव्यमन्त्रवलयबहिःप्रदेशे ठकारेणावेष्ट्य तद्वहिः पृथ्वीमा डलं लिखेत् इत्यभिप्रायः । क्व? 'विपुलतरशिलासम्पुटे' विस्तीर्णपाषाणसम्पुटे। कैः ? 'कुङ्कमाय: काश्मीरादिपीतद्रव्यैः। 'धार्य' धारणीयम् । क्व ? 'श्रीवीरनाथक्रमयुगपुरतः' श्रीवर्द्धमानस्वामिचरणयुगलाग्रतः। किमर्थम् ? 'वह्निदिव्योपशान्त्यै अनलदिव्योपशान्त्यर्थम् ।
वलयमन्त्रोद्धारः ॐ थम्भेइ जलजलणं चिंतियमित्तेण पंचणमयारो । अरिमारिचोरराउलघोरुवसग्गं विणासेइ ॥ स्वाहा२ ॥ प्राकृतमन्त्रोऽयम् । इदमग्निस्तम्भनयन्त्रम् ॥ दिव्येषु जलतुलाफणिखगेषु पवहक्षपिण्डमाविलिखेत् ।
पूर्वोक्ताष्टदलेष्वपि पूर्ववदन्यत् पुनः सर्वम् ॥५॥ 'दिव्येषु' चतुर्पु दिव्येषु । कथम्भूतेषु ? 'जलतुलाफणिखगेषु' जलदिव्ये तुलादिव्ये घटसर्पदिव्ये पक्षिदिव्ये, एतेषु चतुर्पु दिव्येषु । 'पवहक्षपिण्ड' जलदिव्ये प! इतिपिण्डम् , तुलादिव्ये व्यू इतिपिण्डम् , फणिदिव्ये हव्यू इतिपिण्डम् , पक्षिदिव्ये मयू इति पिण्डम् । 'आविलिखेत्' समन्ताद्विलिखेत् । केषु ? 'पूर्वोक्ताटदलेषु' प्राग्विलिखिताष्टदलेषु । कथितचतुर्दिव्येषु पवहक्षपिण्डाः क्रमेण लेखनीयाः। अपिशब्दाद् मध्येऽपि च। 'पूर्ववदन्यत् पुनः सर्व' अन्यत् पुनः यन्त्रोद्धारं प्रालिखितं यथा तथैव सर्वम् ॥
ब्रह्मग्लौंकारपुटं टान्तावृतमष्टवज्रसंरुद्धम् ।
वामं वज्राग्रगतं तदन्तरे रान्तबीजं च ॥६॥ 'ब्रह्म' उकारसम्पुटम् , ग्लौंकारसम्पुटम् इति बीजद्वयम् । कथम्भूतम् ? 'टान्तावृतम्' ठकारावृतम् । पुनः
तम् ? ' अष्टवज्रसंरुद्धम् ' वज्राष्टकैः सम्यग रुद्धम् । 'वामं वज्राप्रगतम् ' उकारो वज्राणां अग्रे स्थितः । 'तदन्तरे' तद्वजाग्रान्तराले 'रान्तबीजं च' रकारस्यान्तो लकारः स एव बीजं रान्तबीजं लं इति । 'चः' समुच्चये ॥
वार्तालीमन्त्रवृतं बाह्येऽष्टसु दिक्षु विन्यसेत् क्रमशः।
मलवरयूंकारयुतान् क्षमठसहपरान्तलान्तांश्च ॥७॥ १ हा ही हूँ हौ हू: पणासेउ इति ख पाठः २ ठः ठः ठः
For Private And Personal Use Only