________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ पञ्चमः क्रोधादिस्तम्भनयन्त्रपरिच्छेदः ५।
क्षमठसहपलववर्णान् मलवरयुंकारसंयुतान् विलिखेत् ।
अष्टदलेषु क्रमशो नाम ग्लौं कर्णिकामध्ये ॥१॥ 'क्षमटसहपलववर्णान् मलवरयूंकारसंयुतान् विलिखेत् अष्टदलेषु' क्षश्च मच ठश्च सश्च हश्च पश्च लश्व वश्च क्षमठसहपलवाः ते च ते वर्णाश्च तान् क्षमठसहपलववर्णान्। कथम्भूतान् ? 'मलवरयूंकारसंयुतान्' मश्च लश्च वश्च रश्च यूंकारश्च मलवरयूकाराः तैः संयुतान् मलवरयूंकारसंयुतान् इति यूँ मरयू ट्यूँ स्म्यूँ हयूँ फ्यूँ ल्यूँ यूँ इत्यष्टदलेषु । कथम् ? 'क्रमशः' प्राच्यादिदिशां क्रमपरिपाटया । 'नाम ग्लौं कणिकामध्ये' तदष्टदलान्तःस्थितकर्णिकामध्ये देवदत्तनामान्वितं ग्लौंकारं लिखेत् ॥
मन्त्रान्यामावेष्टय बाह्ये भूमण्डलेन संवेष्टय । कुङमहरितालाधैर्विलिखेदात्मेप्सितस्तम्भः ॥२॥
'मन्त्राभ्याम्' द्वाभ्यां मन्त्राभ्याम् । 'आवेष्टय' वेष्टयित्वा । 'बाह्ये' मन्त्रबहिःप्रदेशे । 'भूमण्डलेन संवेष्टय' पृथ्वीमण्डलेन सम्यगावेष्टय लिखेत् । कैः ? 'कुङ्कुमहरितालाद्यः' काश्मीरहरितालादिपीतद्रव्यैः । 'विलिखेत्' विशेषेण लिखेत् । मन्त्रद्वयम्
अग्निस्तम्भिनि! पञ्चदिव्योत्तरणि! श्रेयस्कर ! ज्वल ज्वल प्रज्वल प्रज्वल सर्वकामार्थसाधिनि । स्वाह 3 अनलपिङ्गलोर्ध्वकेशिनि ! महादिव्याधिपतये स्वाहा । ॥ अग्निस्तम्भनयन्त्रम् ॥
त्रींकारं चिन्तयेद् वक्त्रे विवादे प्रतिवादिनाम् । त्रां वा रेफ ज्वलन्तं वा स्वेष्टसिद्धिप्रदायकम् ॥३॥
'त्रींकारं चिन्तयेत् त्रीमित्यक्षरं चिन्तयेत् । क्व? 'वक्त्रे'। कस्मिन् विषये ? 'विवादे' व्यवहारादिविषये। केषाम् ? 'प्रतिवादिनाम् ' स्वप्रतिपक्षवादिनाम् । न केवलं त्रींकारम् , 'त्रां वा' प्रामित्यक्षरं वा चिन्तयेत्। 'रेफ ज्वलन्तं वा रकारं जाज्वल्यमानं वा चिन्तयेत् । 'स्वेष्टसिद्धिप्रदायकम्' स्वकीयेप्सितसिद्धिप्रदायकं भवति।।
नाम ग्लौं खान्तपिण्डं वसुदलसहिताम्भोजपत्रे लिखित्वा
तत्पिण्डान्तेषु योज्यं बहिरपि वलयं दिव्यमन्त्रेण कुर्यात् । टान्तं भूमण्डलान्तं विपुलतरशिलासम्पुटे कुङ्कमाथै
र्धार्य श्रीवीरनाथक्रमयुगपुरतो वह्निदिव्योपशान्त्यै ॥४॥
For Private And Personal Use Only