________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४२१]
द्वादशरञ्जिकामन्त्रोद्धाराधिकारः ४ |
२३
"
'त्रिलोहवेष्टितं कृत्वा बाहौ कण्ठे च धारयेत्' ताम्रतारसुवर्ण त्रिलोहम्, तत्र ताम्रं द्वादशभागं तारं षोडशभागं, सुवर्ण त्रिभागं, एवं त्रिलोहभागप्रमाणेन तयन्त्रवेष्टनं कृत्वा ' कारयित्वा ' बाहौ कण्ठे च ' दक्षिणभुजे ग्रीवायां च 'धारयेत्' ध्रियते । 'स्त्रीसौभाग्यकरं यन्त्र' एतद् यन्त्रं दुर्भगस्त्रीणां सौभाग्यकरं भवति । 'स्त्रीणां चेतोऽभिरञ्जकम् ' स्त्रीणां मनोऽभिरञ्जनं भवति ॥ स्त्रीणां सौभाग्यकरणे क्षवषड्रञ्जिकायन्त्रम् ॥ क्षाद्यक्षरपदे योज्यं लं शिलातलसम्पुटे ।
विलिख्योवपुरं बाह्ये स्तम्भने तालकादिभिः ॥ २१॥
Acharya Shri Kailassagarsuri Gyanmandir
1
'क्षाद्यक्षरपदे' क्षकारादिवषडक्षरफट्स्थाने । 'योज्यम्' योजनीयम् । किम् ? 'ले' लकारम् । क्व ? 'शिलातलसम्पुटे' | 'विलिख्य' लिखित्वा । किम् ? 'उर्वीपुरं' पृथ्वीपुरम् । क्व ? 'बाह्ये' त्रिमूर्तिवेष्टनबहिः प्रदेशे । कस्मिन् विषये ? ' स्तम्भने ' क्रोधादिस्तम्भनकरणे । कैः ? 'तालकादिभिः' हरितालादिपीतद्रव्यैः ।। क्रोधादिस्तम्भन करणे रञ्जिकायन्त्रम् ॥ इति द्वादशरजिकोद्धारक्रमः ॥
इत्युभयभाषाकविशेखरश्रीमल्लिषेणसूरिविरचिते भैरवपद्मावतीकल्पे द्वादशरञ्जिकायन्त्रोद्धाराधिकारश्चतुर्थः परिच्छेदः ॥ ४ ॥
For Private And Personal Use Only