________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविषरणे भैरवपनाषतीकल्पे [श्लोकाः ४।१६'फटस्थाने' प्राग्लिखितफडक्षरस्थाने । 'लिखेत्' विलिखेत्। 'भान्त' मकारम् । 'भर्ये' भूर्यपत्रे। कथम् ? 'तनामसंयुतम्' देवदत्तनामान्वितम् । केन ? 'विषोपयुक्तरक्तेन' शृङ्गीविषान्वितखररक्तेन । पुनः कथम्भूतम् ! 'नीलसूत्रेण वेष्टितम् ॥
मृत्पुत्रिकोदरे स्थाप्यं तच् श्मशाने निवेशयेत् ।
सप्ताहाजायते शत्रोश्छेदभेदादिनिग्रहः ॥१६॥ 'मृत्पुत्रिकोदरे स्थाप्य' एतद् यन्त्रं श्मशानदग्धमृत्तिकाकृतपुत्तलिकोदरमध्ये स्थाप्यम् । स्थापयित्वा 'तचश्मशाने निवेशयेत् तद् मृत्पुत्रिकोदरे स्थापितयन्त्रं प्रेतवने स्थापयेत् । 'सप्ताहात्' सप्तदिनमध्ये । 'जायते' भवेत्। किं भवेत् ? 'छेदभेदादिनिग्रहः' छेदनभेदनादिनिग्रहणं भवेत् । कस्य ? 'शत्रोः' रिपोः ॥ रिपुच्छेदनभेदननिग्रहकरणे मरञ्जिकायन्त्रम् ॥
तुर्यस्वरं लिखेद् विद्वान मस्थाने नामसंयुतम् ।
कुङमागरुकर्पर ये रोचनयाऽन्वितैः ॥१७॥ 'तुर्यस्वरं' चतुर्थस्वरं ईकारम् । 'लिखेत्' विलिखेत् । क्व ? 'मस्थाने' फण्मकारस्थाने । कोऽसौ ? 'विद्वान्' । कथम् ! 'नामसंयुतम्' देवदत्तनामान्वितम्। कैः कृत्वा ? 'कुङ्कुमागरुकपरैः' काश्मीरागरुचन्दनैः । कथम्भूतैः ? 'रोचनयाऽन्वितैः' गोरोचनायुक्तः, क्व ? 'भूर्ये' भूर्यपत्रे ॥
सुवर्णमठितं कृत्वा बाहौ वा धारयेद् गले।
करोतीदं सदा यन्त्रं तरुणीजनमोहनम् ॥१८॥ 'सुवर्णमठितं कृत्वा' सुवर्णेन वेष्टितं कृत्वा । 'बाही वा' दक्षिणभुजे वा। 'धारयेद् गले' कण्ठे वा धारयेत् । 'करोतीद' एतत् करोति । 'सदा' सर्वकालम् । 'यन्त्रं' एतत्कथितयन्त्रम् । 'तरुणीजनमोहनम्' अबलाजनमोहकारि भवति ॥ वश्यकर्मकरणे ईरञ्जिकायन्त्रम् ॥
वषड्वर्णयुतं कूटं लिखेदीकारधामनि। भूर्यपत्रे सितेऽत्यन्ते रोचनाकुमादिभिः ॥१९॥
'वषड्वर्णयुतं' वषडित्यक्षरान्वितम् । कम् ? 'कूटम्' क्षकारं 'लिखेत् । कस्मिन् स्थाने ? 'ईकारधामनि' फडीकारस्थाने। क्व ? 'भूर्यपत्रे' । कथम्भूते ? ' सितेऽत्यन्ते' अत्यन्तशुभ्रे । कैः ? रोचनाकुङ्कुमादिभिः' गोरोचनाकाश्मीरादिभिः ॥
त्रिलोहवेष्टितं कृत्वा बाहौ कण्ठे च धारयेत् । स्त्रीसौभाग्यकरं यन्त्रं स्त्रीणां चेतोऽभिरक्षकम् ॥२०॥
For Private And Personal Use Only