________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१५]
द्वादशरञ्जिकामन्त्रोद्धाराधिकारः ४ |
'पूर्वोक्ताक्षरसंस्थाने' विद्वेष कर्मलिखित र्य - इत्यक्षरस्थाने | 'मान्तं' यकारम् । कथम्भूतम् ? 'विसर्गसंयुक्तम्' बिन्दुद्वययुतं लिखेत् । कया ? 'काकपक्षया लेखिन्या' काकपक्षजनित लेखिन्या । कैः ? 'प्रेताङ्गारविषारुणैः' स्मशानाङ्गारविषकाकरक्तैः । कथम्भूतैः ? 'घूकारिविष्ठासंयुक्तैः ' घूकारिः काकः, तस्य विष्ठा घूकारिविष्ठा तया संयुक्तेः । 'ध्वजयन्त्र' सूतीकर्पटं ध्वजयन्त्रं एतदुच्चाटनयन्त्रम् । कथम्भूतम् ? 'सनामकम्' देवदत्तनामान्वितम् । 'लिखित्वा' विलिख्य । 'उपरि' अग्रे । केषाम् ? 'वृक्षाणां ' कलितरूणाम् । 'बद्धं' निबद्धम् । 'रिपोः ' शत्रोः । 'उच्चाटन ' उच्चाटनं स्यात् ॥ उच्चाटनकर्मकरणे य:- रंजिकायन्त्रम् ॥
शृङ्गीगरलरक्ताभ्यां नृकपालपुटे लिखेत् ।
प्रेतास्थिजातलेखिन्या यः स्थाने तु नमोऽक्षरम् ॥ ११ ॥
"
शृङ्गीगरलरक्ताभ्यां ' शृङ्गीविषरासभरक्ताभ्याम् । 'नृकपालपुटे लिखेत् ' मनुष्यकपालसम्पुटे लिखेत् । कया ? ' प्रेतास्थिजात लेखिन्या ' शबास्थिज नित लेखिन्या । 'यः स्थाने' पूर्वलिखितफड्यकारस्थाने । 'तु' पुनः । किम् ? 'नभोऽक्षरम्' हकारं लिखेत् ॥
श्मशाने निखेनेद् रोषात् कृत्वा तद् भस्म पूरितम् ।
करोति तत्कुलोच्चाटं वैरिणां सप्तरात्रतः ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
'श्मशाने' प्रेतवने । 'निक्षिपेत्' स्थापयेत् । कथम् ? ' रोषात् ' । 'कृत्वा तद् भस्मपूरितं' तत् कपालसम्पुढं श्मशानभस्मपूरितं कृत्वा । ' तद्' | 'वैरिणां' शत्रूणाम् । 'कुलोचाटं करोति ' कुलो चाटनं करोति । कथम् ? सप्तरात्रतः ' ॥ उच्चाटनकर्मणि हरञ्जिकायन्त्रम् ॥
फडक्षरं नभःस्थाने श्मशानस्थितकर्पटे ।
निम्बार्कजरसेनैतद् विलिखेत् क्रुद्धचेतसा ॥१३॥
'फडक्षरं' फडित्यक्षरम् | 'नभःस्थाने' प्रालिखितफड्हकारस्थाने । 'श्मशान स्थितकर्पटे' श्मशान गृहीतवसने । 'निम्बार्क जरसेन' निम्बरविरसेन । 'एतत्' फडक्षरान्वितं यन्त्र 'विलिखेत्' लिखेत् । कथम् ? 'क्रुद्धचेतसा' क्रुद्धभावेन ॥ श्मशाने निक्षिपेद् यन्त्रं यावत् तद् भुवि तिष्ठति । परिभ्राम्यत्यसौ तावद् वैरी काक इव क्षितौ ॥ १४ ॥
फटस्थाने लिखेद् भान्तं भूर्ये तन्नामसंयुतम् । विषोपयुक्तरक्तेन नीलसूत्रेण वेष्टितम् ॥ १५ ॥
१ निक्षिपेद्रोषात् इति न पाठः
२१
' श्मशाने ' स्मशानभूमौ । 'निक्षिपेत्' । किम् ? ' यन्त्रम् ' । ' यावत् तद् भुवि तिष्ठति' यावत्कालं तद् यन्त्रं भूम्यां तिष्ठति । 'परिभ्राम्यत्यसौ तावद् वैरी काक इव' असौ वैरी तावत्कालं काक इव भ्रमणं करोति । क्व ? ' क्षितौ' पृथिव्याम् || उच्चाटनकर्मकरणे फड्कायन्त्रम् ॥
For Private And Personal Use Only