________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे [श्लोकाः ३२२२
इदानीं देल्यावक्रचतुष्टयस्थापनक्रमःभक्तियुतो भुवनेशश्चतुःकलायुतं कूटमथ देव्याः।।
वर्णचतुष्कनमोऽन्तं स्थाप्याः प्राच्यादिदिक्षु पद्मबहिः ॥२२॥ 'भक्तियुतः' उकारयुतः। कः ? 'भुवनेशः' हीकारः। 'चतुःकलायुतम्' आ ई ऊ ऐ इति चतुःकलायुतम् । किं तत् ? 'कुटम्' क्षकारम् । 'अथ' अनन्तरम् । 'देव्या वर्णचतुष्कम्'पद्मावतीवर्णचतुष्टयम् । 'नमोऽन्तम्' नमःशब्दान्तमन्त्र स्थाप्याः'स्थापनीयाः। कासु?'प्राच्यादिदिक्षु पूर्वादिचतुर्दिशासु। क्व ? पद्मबहिः' अष्टदलकमलबहिःप्रदेशे। ___मन्त्रोद्धारः- ही क्षा प नमः इति प्राच्यां दिशि, 3 ही क्षी मा नमः इति याम्यायाम् , 3 ही क्ष व नमः इति पश्चिमायाम् , उ ह्री क्षे ती नमः इत्युत्तरस्यां विलिखेत् ॥ २२ ॥
एतत् पद्मावतीदेव्या भवेच्चक्रचतुष्टयम् ।
पञ्चोपचारतः पूजां नित्यमस्याः करोत्विति ॥२३॥ ‘एतत्' कथितं, 'पद्मावतीदेव्या भवेत् चक्रचतुष्टयम्' पद्मावतीदेव्याः चक्रचतुष्टयं स्यात् । ‘पञ्चोपचारतः' आह्वानादिपञ्चभेदैः, 'पूजाम्' अर्चनाम् , 'नित्यम्' सर्वकार्ल, 'अस्याः' पद्मावतीदेव्याः, 'इति' एवं अनेन प्रकारेण पूजां 'करोतु' कुर्यात् ॥ २३॥
आह्वानं स्थापनं देव्याः सन्निधीकरणं तथा।
पूजां विसर्जनं प्राहुर्बुधाः पञ्चोपचारकम् ॥२४॥ 'आह्वानम्' देव्या आह्वानम् , 'स्थापनम्' देव्याः स्थापनम् , 'सनिधीकरणम्' देण्याः सनिधीकरणम् , 'तथा' तेन प्रकारेण, 'पूजाम्' देध्या अर्चनम् , 'विसर्जनम्' देव्या विसर्जनम् , 'बुधाः' पण्डिताः, 'पञ्चोपचारकम्' एतत्पञ्चोपचारकं, 'प्राहु' कथयन्ति ॥ २४ ॥
न ही नमोऽस्तु भगवति ! पद्मावति ! एहि एहि सं वौषट् ।
कुर्यादमुना मन्त्रेणाह्वानमनुस्मरन् देवीम् ॥२५॥ " ही नमोऽस्तु भगवति ! पद्मावति ! एहि एहि सं वौषट्” इति 'अमुना मन्त्रेण' अनेन मन्त्रेण, 'अनुस्मरन' चिन्तयन् , 'देवी' पद्मावती, 'आह्वान' देव्या आह्वानं कुर्यात् ॥ २५॥
तिष्ठद्वितयं ठान्तद्वयं च संयोजयेत् स्थितीकरणे।
सन्निहिता भवशद्वं मम वषडिति सन्निधीकरणे ॥२६॥ 'तिष्ठद्वितय' प्राक्कथितमन्त्राने तिष्ठ तिष्ठ इति पदद्वयम् , 'ठान्तद्वयम्' ठः ठः इति ठकारद्वयं च 'संयोजयेत' सम्यग नियोजयेत् , क्व ? 'स्थितीकरणे' देव्याः स्थापने । 'सन्निहिता भवशब्दं मम वषडिति' प्राककथितमन्त्रस्याग्रे मम सन्निहिता भव भव वषट इति पदं योज्यम् । व? 'सन्निधिकरणे' देव्यर्चने उपकरणे॥२६॥
For Private And Personal Use Only