________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३।२१] देव्यर्चनाधिकारः ३।
१३ आद्या जया च विजया तथाऽजिता चापराजिता देव्यः ।
जम्भामोहास्तम्भास्तम्भिन्यो देवता एताः॥१८॥ 'आद्या' प्रथमा, 'ज़या च' जयानामा "विजया' विजयानामा, 'तथा' तेन प्रकारेण, अजितानामा, 'च: समुच्चये, 'अपराजिता देव्यः' अपराजितेति दिग्देव्यः । 'जम्मा' जम्भा नाम, 'मोहा' मोहा नाम, 'स्तम्भा' स्तम्भा नाम, 'स्तम्भिनी' स्तम्भिनीति विदिग्देवताः । एता अष्ट देव्यः ।
उही जये : नमः इति प्राच्यां दिशि। 3 ही विजये ! नमः इति दक्षिणस्यां दिशि । उ ही अजिते ! नमः इति पश्चिमायां दिशि । उ ही अपराजिते ! नमः इत्युत्तरस्यां दिशि । उ ही जम्भे ! नमः इत्याग्नेय्यां दिशि। 3 ही मोहे । नमः इति नैर्ऋत्यां दिशि । 3 ही स्तम्भे ! नमः इति वायव्यां दिशि । 3 ही स्तम्भिनि ! नमः इत्यैशान्यां दिशि लिखेत् । एवमष्टदेवीनां मध्यरेखास्थापनक्रमः ॥ १८॥
तन्मध्येऽष्टदलाम्भोजमनकमलाभिधाम् ।
विलिखेच्च पद्मगन्धां पद्मास्यां पद्ममालिकाम् ॥१९॥ 'तन्मध्ये' प्रालिखितरेखात्रयमण्डलमध्ये, 'अष्टदलाम्भोज' अष्टदलकमलं, 'अनङ्गकमलाभिधाम्' तत्पत्रदले अनङ्गकमलानामां, 'विलिखेच्च' विशेषेण लिखेत् , 'पद्मगन्धा' पद्मगन्धानामाम् , 'पद्मास्याम्' पद्मास्यानामाम् , पद्ममालिकाम्' पद्ममालानामधेयाम् ॥ १९॥
मदनोन्मादिनी पश्चात् कामोद्दीपनसंज्ञिकाम् ।
संलिखेत् पद्मवर्णाख्यां त्रैलोक्यक्षोभिणी ततः ॥२०॥ 'मदनोन्मादिनी' मदनोन्मादिनीनामां, 'पश्चात् तदनन्तरम्, 'कामोद्दीपनसंज्ञिकाम्' कामोद्दीपननाम्नी 'संलिखेत् सम्यग लिखेत् , 'पद्मवर्णाख्याम्' पद्मवर्णानामधेयां, 'त्रैलोक्यक्षोभिणों ततः' अनन्तरं त्रैलोक्यक्षोभिणी लिखेत् ॥२०॥
तेजोहीकारपूर्वोक्ता नमःशद्धावसानगाः।
अकारादिहकारान्तान केशरेषु नियोजयेत् ।।२१॥ अस्य श्लोकस्य पूर्वार्ध पूर्वमेव सम्बन्धनीयम् , उत्तरार्ध तृत्तरत्र । 'तेजोहीकार' उकारहीकार, 'पूर्वोक्ताः' पूर्वमुक्ता या दिशां अष्ट देव्यः ताः उहीकारपूर्वोक्ताः। किविशिष्टा: ? 'नमःशब्दावसानगाः' नमःशब्दानत्यगताः। आसामुद्धारः-3 ही अनङ्गकमलायै नमः, 3 ही पद्मगन्धायै नमः, 3 ही पद्मास्यायै नम:, 3 ही पद्ममालायै नमः, ॐ ही मदनोन्मादिन्यै नमः, ॐ ही कामोद्दीपनायै नमः, ॐ ही पद्मवर्णायै नमः, न ही त्रैलोक्यक्षोभिण्यै नमः इति प्राच्याद्यष्टदलेषु स्थापनीयाः । इदानीमपरार्धे कथ्यते-'अकारादिहकारान्तान्' अकारमादिं कृत्वा हकारपर्यन्तान् , 'केशरेषु' कर्णिकाया मध्ये, 'नियोजयेत्' नियुक्तं कुर्यात् ॥२१॥
For Private And Personal Use Only