________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४]
देव्यर्चनाधिकारः ३। __'विद्वेषणेत्यादि' विद्वेषणे हुं इति पल्लवं प्रयोज्यम् । भाकर्षणे वौषडन्तं प्रयोज्यम् । उच्चाटने फडिति पल्लवं योज्यम् । वश्ये कर्मणि वषड़ इति पल्लवं योज्यम् । वरिखधे च घे घे इति पल्लवं योज्यम् । चशब्दात् स्तम्भने घेघे इति पल्लवं योज्यम् । 'स्वाहा' स्वाहेति पल्लवं शान्तिके योज्यम् । 'स्वधा' इति पल्लवं पौष्टिके योज्यम् । इति षट्कर्मकरणे एते पल्लवा योजनीया: ॥१०॥
स्फटिकप्रवालमुक्ताफलचामीकरपुत्रजीवकृतमणिभिः ।
अष्टोत्तरशतजाप्यं शान्त्याद्यर्थे करोतु बुधः ॥११॥ स्फटिककृतभणिभिः शान्तिककर्मणि । प्रवालकृतमणिभिः वश्याकर्षणयोः। मुक्ताफलकृतैः पौष्टिककर्मणि । 'चामीकर' सुवर्णकृतमणिभिःस्तम्भनकर्मणि पुत्रजीवकृतमणिभिः विद्वेषणोचाटनप्रतिषेधकर्मणि । एतेषांकृतमणिभिः 'अष्टोत्तरशतजाप्य' अष्टाधिकशतं जाप्यं 'शान्त्याद्यर्थे' शान्तिकं आदि कृत्वा 'बुधः' प्राज्ञः 'करोतु' कुर्यात् ॥११॥
मोक्षाभिचारशान्तिकवश्याकर्षेषु योजयेत् क्रमशः ।
अङ्गुष्ठाद्यङ्गुलिका मणयोऽङ्गुष्ठेन चाल्यन्ते ॥१२॥
'अङ्गुष्ठाद्यङ्गुलिका' अङ्गुष्टमादि कृत्वा अङ्गुलीः मोक्षादिकर्मसु योजयेत् । कथम् ? 'क्रमशः' क्रमपरिपाट्या । 'मणयः' प्राक्कथितमणय: ‘अङ्गुष्ठेन चाल्यन्ते' मोक्षार्थी अङ्गुष्ठेन चालयेत् । अभिचारकर्मणि तर्जन्या, शान्तिकपोष्टिकयोः मध्यमाङ्गुल्या, वश्यकर्मणि अनामिकाङ्गुल्या, आकर्षणकर्मणि कनिष्टाङ्गुल्या चालयेत् ॥१२॥
__ इति ग्रन्थानुसारेण दिक्कालादिभेदेन षट् कर्माणि व्याख्यातानि । इदानी देव्याराधनगृहयन्त्रोद्धारो विधीयते
चतुरस्र विस्तीर्णं रेखात्रयसंयुतं चतुरिम् ।
विलिखेत् सुरभिद्रव्यैर्यन्त्रमिदं हेमलेखन्या ॥१३॥ __'चतुरस्रं' समचतुरनम् । 'विस्तिर्ण विपुलम् । रेखात्रयसंयुतं' रेखात्रितयसंयुक्तम् ।'चतुर्दार' चतुरान्वितम्। 'विलिखेत्' विशेषेण लिखेत् । 'सुरमिद्रव्यः' कुङ्कुमकस्तूरिकादिसुगन्धिद्रव्यैः । 'यन्त्रमिदं' इदं देव्या गृहयन्त्रम् । 'हेमलेखन्या' स्वर्णलेखन्या ॥१३॥
धरणेन्द्राय नमोऽधच्छदनाय नमस्तथोर्ध्वछदनाय ।
पद्मच्छदनाय नमो मन्त्रान् वेदादिमायाद्यान् ॥१४॥ धरणेन्द्राय नमः इति पूर्वद्वारपदम् । अधच्छदनाय नमः इति दक्षिणद्वारपदम् । 'तथा' तेन प्रकारेण । ऊर्ध्वच्छदनाय नमः इति पश्चिमद्वारपदम् । पद्मच्छदनाय नमः इति उत्तरद्वारपदम् । 'मन्त्रानेतान्' एतान् मन्त्रान् । कथम्भूतान् ? 'वेदादिमायाद्यान्' उकारादिह्रींकाराद्यान् ॥१४॥
For Private And Personal Use Only