________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे [प्रलोकाः ३६पूर्वाह्ने वश्यकर्माणि मध्याह्ने प्रीतिनाशनम् । उच्चाटनं पराले च सन्ध्यायां प्रेतिषेधकृत् ॥६॥ शान्तिकर्माधरात्रे च प्रभाते पौष्टिक तथा।
वश्यं मुक्त्वाऽन्यकर्माणि सव्यहस्तेन योजयेत् ॥७॥ _ 'पूर्वाहे' इत्यादि। पूर्वाह्नकाले वसन्ततौं वश्याकृष्टिस्तम्भनकर्माणि कुर्यात् । 'मध्याह्ने प्रीतिनाशनम्' मध्याह्नकाले ग्रीष्मतों विद्वेषणं कुर्यात् । 'उच्चाटनं पराढ़े' अपराह्ने वर्षों उच्चाटनं कुर्यात् । चः समुच्चये। 'सन्ध्यायों प्रतिषेधकृत्' सन्ध्याकाले शरदृतौ निषेधं कुर्यात् । 'शान्तिकर्माधरात्रे च' अर्धरात्रे हेमन्तौ शान्तिकर्म कुर्यात् । च: समुच्चये । 'प्रभाते पौष्टिकं तथा' प्रभातसमये शिशिरतौं पौष्टिकं कर्म कुर्यात् । 'वश्यं मुक्त्वा' वश्यकर्म वर्जयित्वा । 'अन्यकर्माणि' इतराकृष्टिकर्माणि 'सव्यहस्तेन' दक्षिणहस्तेन ‘योजयेत्' कुर्यात् , वश्यकर्मैव वामहस्तेन योजयेदित्यर्थः ॥६॥७॥
इति कर्मकालनिरूपणम् ॥ अङ्कुश-सरोज-बोध-प्रवाल-सच्छङ-वज्रमुद्राः स्युः ।
आकृष्टि-वश्य-शान्तिक-विद्वेषण-रोध-वधसमये ॥८॥ 'अङ्कुश' अङ्कुशमुद्रा 'आकृष्टि' आकर्षणकर्मणि । 'सरोज' सरोजमुद्रा 'वश्य' वश्यकर्मणि । 'बोध' ज्ञानमुद्रा 'शान्तिक' शान्तिकपौष्टिकयोः । 'प्रवाल' पल्लवमुद्रा 'विद्वेषणे' फटकर्मणि । 'सच्छा' सम्यक् शङ्खमुद्रा 'रोध' स्तम्भनकर्मणि। 'वज्र वज्रमुद्रा 'वधसमये' प्रतिषेधसमये । इति षटकर्मकरणे एता मुद्राः 'स्युः' भवेयुः ॥ ८॥
दण्डस्वस्तिकपङ्कजकुक्कुटकुलिशोच्चभद्रपीठानि ।
उदयार्करक्तशशधरधूमहरिद्रासिता वर्णाः ॥९॥ 'दण्ड' दण्डासन आकर्षणकर्मणि । 'स्वस्तिक'स्वस्तिकासनं वश्यकर्मणि। 'पङ्कज'पङ्कजासनं शान्तिकपौष्टिकयोः। 'कुक्कुट' कुकुटासनं विद्वेषोच्चाटनयोः। 'कुलिश' वज्रासनं स्तम्भनकर्मणि । 'उच्चभद्रपीठानि' विस्तीर्णभद्रपीठासनं निषेधकर्मणि । इत्येतान्यासनानि षटकर्मकरणे योजनीयानि ॥
_ 'उदयार्क' अरुणवर्ण आकृष्टिकर्मणि । 'रक्त' जपाकुसुमवर्ण वश्यकर्मणि । 'शशधर' चन्द्रकान्तवर्ण शान्तिकपोष्टिकयोः । 'धूम' धूम्रवर्ण विद्वेषणोच्चाटनयोः । 'हरिद्रा' पीतवर्ण स्तम्भनकर्मणि । 'असित' कृष्णवर्ण निषेधकर्मणि । इत्येवंविधा वर्णाः षटकर्मकरणे प्रयोक्तव्याः । इत्यासनवर्णभेदाः कथिताः॥९॥
विद्वेषणाकर्षणचालनेषु हुं वौषडन्तं फडिति प्रयोज्यम् । वश्ये वषड् वैरिवधे च घे घे स्वाहा स्वधा शान्तिकपौष्टिके च ॥१०॥
१ 'मारणं स्मृतम्' इति ख पाठः ।
For Private And Personal Use Only