________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयो देव्यर्चनाक्रमपरिच्छेदः । ३ । दीपन-पल्लव-सम्पुट-रोध-प्रथना-विदर्भणैः कुर्यात् ।
शान्ति-द्वेष-वशीकृत-बन्ध-ख्याकृष्टि-संस्तम्भम् ॥१॥ 'दीपन' दीपनेन शान्तिक कुर्यात् , 'पल्लव' पल्लवेन विद्वेषणं कुर्यात् , 'सम्पुट' सम्पुटेन वश्यं कुर्यात् , 'रोधन' रोधनेन बन्धं कुर्यात् , 'प्रथना' प्रथनया ज्याकृष्टिं कुर्यात् , 'विदर्भण' विदर्भणेन क्रोधादिस्तम्भं कुर्यात् ॥ १॥ अथ दीपनादीनां व्याख्या
आदौ नामनिवेशो दीपनमन्ते च पल्लवो ज्ञेयः । तन्मध्यगतं सम्पुटमथादिमध्यान्तगो रोधः ॥२॥ ग्रथनं वर्णान्तरितं द्वयक्षरमध्यस्थितो विदर्भः स्यात् ।
षट्कर्मकरणमेतज् ज्ञात्वाऽनुष्ठानमाचरेन्मन्त्री ॥३॥ 'आदौ नामनिवेशौ दीपनम्' मन्त्रस्यादौ यन्नामनिवेशनं तद् दीपनं स्यात् । 'अन्ते च पल्लवो ज्ञेयः मन्त्रस्यान्ते यन्नामनिवेशनं स पल्लवो 'ज्ञेयः' ज्ञातव्यः । 'तन्मध्यगतं सम्पुट' तन्मन्त्रमध्ये निवेशितं नाम सम्पटमिति स्यात् । 'अथादिमध्यान्तगो रोधः' अथ-पश्चात् मन्त्रस्यादौ मध्ये अन्ते : स रोघः स्यात् । 'प्रथनं वर्णान्तरितम्' मन्त्रस्याक्षरमेकं नामाक्षरमेक एवं वर्णप्रथनं तद् प्रथनमिति स्यात् । 'द्वयक्षरमध्यस्थितो विदर्भः स्यात्' मन्त्रस्याक्षरद्वय प्रति पश्चाद् यन्नामनिवेशः स विदर्भः स्यात् । 'षट्कर्मकरणमेतत्', एतच् शान्त्यादिषट्कर्मक्रियाविधानं 'ज्ञात्वा' बुद्ध्वा अनुष्ठानं मन्त्रवादी आचरेत् ॥ २॥३॥
दिक्कालमुद्रासनपल्लवानां भेदं परिज्ञाय जपेत् स मन्त्री।
न चान्यथा सिध्यति तस्य मन्त्रं कुर्वन् सदा तिष्ठतु जाप्यहोमम् ॥४॥ 'दिक्काल.' इत्यादि। दिक च कालश्च मुदा च आसनं च पल्लवश्व दिकालमुद्रासनपल्लवाः तेषां दिकालमुद्रासनपल्लवानां, 'भेदं' विवरण, 'परिज्ञाय' सम्यग् ज्ञात्वा, सः 'मन्त्री' मन्त्रवादी जपेत् 'जापं कुर्यात् । 'न चान्यथा सिध्यति तस्य मन्त्रम्' अन्यथा-दिकालादिभेदपरिज्ञानाभावे तस्य-मन्त्रिणः मन्त्र 'न सिध्यति' सिद्धिं न प्राप्नोति । 'कुर्वन् सदा तिष्ठतु जाप्यहोम' जाप्यहोमं कुर्वन् सन् सदा तिष्ठतु परं न सिध्यति ॥ ४ ॥
वश्याकृष्टिस्तम्भननिषेधविद्वेषचलनशान्तिकं पुष्टिम् ।
कुर्यात् सोमयमामरहराग्निमरुदधिनिर्ऋतिदिग्वदनः ॥५॥ 'वश्याकृष्टिस्तम्भननिषेधविद्वेषचलनशान्तिकं पुष्टिम्' एतानि कर्माणि । 'सोमयमामरहरामिमरुदब्धिनिर्ऋतिदिग्वदनः' । 'सोम' उत्तराभिमुखेन वश्यकर्म । 'यम' दक्षिणाभिमुखेन 'आकृष्टिः' आकर्षणकर्म । 'अमर' पूर्वाभिमुखेन स्तम्भनकर्म । 'हर' ईशानाभिमुखेन निषेधकर्म । 'अग्नि' अग्निदिङ्मुखेन विद्वेषणकर्म । मरुत्' वायव्यदिङ्मुखेन 'चलन' उच्चाटनकर्म। 'अब्धि' पश्चिमाभिमुखेन 'शान्तिक' शान्तिकर्म । 'नैऋतिदिग्वदनः' नैर्ऋत्याभिमुखेन पौष्टिककर्म । इति दिग्वदनो भूत्वा वश्यादिकर्माणि कुर्यात् ॥५॥
For Private And Personal Use Only