________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे [श्लोकाः २२१०भूतग्रहशाकिन्यो ध्यानेनानेन नोपसर्पन्ति ।
अपहरति पूर्वसञ्चितमपि दुरितं त्वरितमेवेह ॥१०॥ 'भूतग्रहशाकिन्यः' भूतानि च प्रहाश्च शाकिन्यश्च भूतग्रहशाकिन्यः। 'ध्यानेनानेन' अनेन कथितध्यानेन । 'नोपसर्पन्ति' उपसर्पणं कर्तुं न शक्नुवन्ति । 'पूर्वसञ्चितमपि' प्रागजन्मोपार्जितमपि । किं तत् ? 'दुरितम्' दु:कर्म । 'त्वरितमेव' शीघ्रमेव । 'अपहरति' नाशयति ॥ १०॥
पर्यङ्कासनसंस्थः समीपतरवर्तिपूजनद्रव्यः ।
दिग्वनितानां तिलकं स्वस्य च कुर्यात् सुचन्दनतः ॥११॥ 'पर्यङ्कासनसंस्थः' पल्यङ्कासने संस्थः । 'समीपतरवर्तिपूजनद्रव्यः' स्वपार्श्वस्थापिताष्टविधपूजोपकरणद्रव्यः । 'दिग्वनितानां तिलकं' पूर्वाद्यष्टदिग्वधूनां तिलकं-विशेषकम् । 'स्वस्य च' आत्मनश्चापि । 'सुचन्दनतः' शोभनेन चन्दनेना तिलकं 'कुर्यात्' करोतु ॥ ११ ॥
पन्नगाधिपशेखरां विपुलारुणाम्बुजविष्टरां कुर्कुटोरगवाहनामरुणप्रभा कमलाननाम् । त्र्यम्बकां वरदाङ्कुशायतपाशदिव्यफलाङ्किता
चिन्तयेत् कमलावती जपतां सतां फलदायिनीम् ॥१२॥ ‘पन्नगाधिपशेखरां' पन्नगानां अधिपः पन्नगाधिपः-धरणेन्द्रः शेखरे--मुकुटाग्रे विद्यते यस्याः सा पन्नगाधिपशेखरा, ताम् । किंविशिष्टाम् ? 'विपुलारुणाम्बुजविष्टराम्' विपुलं-विस्तीर्ण अरुणाम्बुजमेव विष्टर-आसनं यस्याः सा विपुलारुणाम्बुजविष्टरा ताम् । पुन: किंविशिष्टाम् ? 'कुर्कुटोरगवाहनाम्' कुर्कुटसर्पवाहनाम् । पुन: किंविशिष्टाम् ? 'अरुणप्रभां' सिन्दरवत् प्रभा-दीप्तिर्विद्यते यस्याः सा ताम् । पुनः किंविशिष्टाम् ? 'कमलाननाम्' कमलवद् आननं मुखं यस्याः सा कमलाननां ताम् । 'त्र्यम्बकाम्' त्रीणि अम्बकानि-लोचनानि विद्यन्ते यस्याः सा त्र्यम्बका ताम् । पुनः किंविशिष्टाम् ? 'वरदाङकुशायतपाशदिव्यफलाङ्किताम्' वरदश्च अङ्कुशश्च आयतपाशश्च दिव्यफलं च वरदाङ्कुशायतपाशदिव्यफलानि तैः अङ्किता:-चिह्निताः करा यस्याः सा वरदाङकुशायतपाशदिव्यफलाकिता ताम् । 'चिन्तयेत्' ध्यानं कुर्यात् । काम् ! 'कमलावतीम्' पद्मावतीम् । किंविशिष्टाम् ? 'जपतां' जाप्यं कुर्वतां 'सतां' सत्पुरुषाणां 'फलदायिनी' फलं ददातीति तां फलदायिनीम् ॥१२॥
परिज्ञायांशकं पूर्व साध्यसाधकयोरपि ।
मन्त्रं निवेदयेत् प्राज्ञो व्यर्थ तत्फलमन्यथा ॥१३॥ 'परिज्ञाय' सम्यग् ज्ञात्वा । किम् ? 'अंशक' मात्रांशकम् । 'पूर्व' प्राक् । कयोः ? 'साध्यसाधकयोः' साध्यःमन्त्रः, साधकः-मन्त्री तयोः साध्यसाधकयोः। 'अपि' निश्चयेन। 'मन्त्रं निवेदयेत्' मन्त्रोपदेशं कुर्यात् ।
१ "उरग" इति ख पाठः
For Private And Personal Use Only