________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२|१८]
सकलीकरणपरिच्छेदः २ ।
'प्राज्ञो' धीमान् । 'अन्यथा' अंश कज्ञानाभावे । 'तत्फलं ' तस्य मन्त्रस्य फलम् | 'व्यर्थ' निरर्थकं भवेत् ॥ १३॥
साध्यसाधकयोर्नामानुस्वारव्यञ्जनस्वरम् ।
पृथक् कृत्वा क्रमात् स्थाप्यमूर्ध्वाधः प्रविभागतः ॥ १४॥
आयो भागोद्धरितं तं चाद्यं स्थापयेत् क्रमाद् धीमान् । एकद्वित्रिचतुर्वर्णान् सिद्धं साध्यं सुसिद्धमरिः ॥ १६॥
'साध्यसाधकयोर्नाम ' साध्यो- मन्त्रः साधको - मन्त्री तयोर्नाम । 'अनुस्वारं,' 'व्यञ्जनं' ककारादिवर्णान् ‘स्वरं’ अकारादिस्वरान्। 'पृथक् कृत्वा पृथग् विश्लेष्य । ' क्रमात् स्थाप्यम्' साध्यसाधकपरिपाठ्या संस्थाप्यम् । कथम् ? ' ऊर्ध्वाधःप्रविभागतः ' साध्यनाम ऊर्ध्वतः साधकनाम अधः कृत्वा अनेन प्रविभागक्रमेण स्थापयेत् ॥ १४ ॥ साध्यनामाक्षरं गण्यं साधकाह्वयवर्णतः ।
नपुंसकं परित्यज्य कुर्यात् तद् वेदभाजितम् ॥ १५ ॥
['साध्यनामाक्षरं' साध्यनामवर्णान् । 'साधकाह्वयवर्णतः' साधक नामाक्षरेभ्यः । 'गण्यं' गणयेत् ।] किं कृत्वा ? 'नपुंसकं ' परित्यज्य' ऋ ॠ ऌ ॡ इति नपुंसकानि परित्यज्य । 'तद् वेदभाजितं ' तत् साध्यसाधकयोरनुस्वारव्यजनगण्यमानराशि वेदभाजितं चतुर्भाजितं कुर्यात् ।। १५ ।।
सिद्धसुसिद्धं ग्राह्यं साध्यं शत्रुं च वर्जयेद् ' धीमान् ।
सिद्धसुसिद्धे फेलदे विफलं साध्ये रिपौ े वाऽऽये॥१७॥
Acharya Shri Kailassagarsuri Gyanmandir
'आयो भागोद्धरित' प्रकृतसाध्यसाधकराशौ चतुर्भिर्भागे हृते यद् उद्धरित स आयः । ' तं च ' उद्धरितं आयं च। ‘आद्यं स्थापयेत्' विश्लेषितसाध्यमात्रानुस्वारव्यञ्जनपङ्क्तौ आदौ स्थापयेत् । कथम् ? ' क्रमात् ' पङ्क्तौ यथानुक्रमेण । कः ? धीमान् । 'एकद्वित्रिचतुर्वर्णान् सिद्धं साध्यं सुसिद्धं अरिः ' सिद्धम्, द्विरुद्धरिते साध्यम्, त्रिरुद्धरिते सुसिद्धम्, चतुरुद्धरिते शत्रुः इत्येवं ज्ञातव्यम् ।। १६ ।।
एक उद्धरिते
फलदं कतिपयदिवसैः सिद्धं चेत् साध्यमपि दिनैर्बहुभिः। झटिति फलदं सुसिद्धं प्राणार्थविनाशनः शत्रुः ॥ १८ ॥
७
'सिद्धसुसिद्धं ग्राह्यं ' चतुरायमध्ये सिद्धमुसिद्धं इत्यायद्वयं ग्राह्यम् । 'साध्यं शत्रुं च वर्जयेत्' तदायमध्ये साध्यं शत्रुं च इत्यायद्वयं वर्जयेत् । कः ? ' धीमान् ' बुद्धिमान् । 'सिद्धसुसिद्धं फलदे ' सिद्धसुसिद्धं इत्यायद्वये सफले मन्त्रस्य फलं भवति । 'विफलं साध्ये रिपौ वाssये' साध्ये रिपौ वा आयद्वये मन्त्रं विफलं स्यात् ॥ १७ ॥
१. प्राज्ञः इति ख पाठः २. सफले इति ख पाठः ३. रिपोरपि इति ख पाठः
For Private And Personal Use Only