________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Cyanmandir
२।९]
सकलीकरणपरिच्छेदः २। ____ 'द्विचतुःषष्ठचतुर्दशकलाभिः' द्विकल:-आकारः, चतुःकल:-ईकारः, षष्ठकल:-ऊकारः, चतुर्दशकल:औकारः, एभिः द्विचतुःषष्ठचतुर्दशकलादिभिः स्वरैः । कथम्भूतैः ? 'अन्त्यस्वरेण बिन्दुयुतैः' अन्त्यस्वरः-अंकारः तेन अन्त्यस्वरेण बिन्दुः-अनुस्वारः तेन युतैः । कैः ? कूट:-क्षकारैः । कथम्भूतैः ? "दिग्विन्यस्तैः' दिशि न्यस्तैः । कासु ? दिशासु । 'दिग्बन्धनं कुर्यात्' दिशां बन्धनं कुर्यात् । उद्धारः-क्षां क्षी हूं क्षौ क्षः ॥ ५ ॥
हेममयं प्राकारं चतुरस्रं चिन्तयेत् समुत्तुङ्गम् ।
विंशतिहस्तं मन्त्री सर्वस्वरसंयुतैः शून्यैः ॥६॥ 'हेममयं' स्वर्णमयम् । कम् ? 'प्राकार' दुर्गम् । कथम्भूतम् ? 'चतुरनम्' चतुःकोणम् । पुनः कथम्भूतम् ? ‘समुत्तुङ्गम्' सम्यग् उन्नतम् । पुन: किंविशिष्टम् ? “विंशतिहस्तं' विंशतिहस्तप्रमाणम् । 'सर्वस्वरसंयुतैः शून्यैः' हकारैः। 'मन्त्री' मन्त्रवादी । 'चिन्तयेत्' एवंगुणविशिष्टं प्राकारं ध्यायेत्-ध्यानं कुर्यात् ॥ ६ ॥
सर्वस्वरसम्पूर्णैः कूटैरपि खातिकाकृतिं ध्यायेत् ।
निर्मलजलपरिपूर्णामतिभीषणजलचराकीर्णाम् ॥७॥ _ 'सर्वस्वरसम्पूर्णैः' । कै: ? 'कूटैः' क्षकारैः । 'अपि' निश्चये । 'खातिकाकृति' परिखाकारम् । 'ध्यायेत्' ध्यानं कुर्यात् । कथम्भूताम् ? 'निर्मलजलपरिपूर्णाम्' । पुनः कथम्भूताम् ? 'अतिभीषणजलचराकीर्णाम्' अतिभयानकमत्स्यमकरनक्रकच्छपादिजलचरपरिपूर्णाम् ।। ७ ॥
ज्वलदोङ्काररकारज्वालादग्धं स्वमग्निपुरसंस्थम् ।
ध्यात्वाऽमृतमन्त्रेण स्नानं पश्चात् करोत्वमुना ॥८॥ 'ज्वलदोङ्काररकार०' जाज्वल्यमान कारः, रकाराक्षराणि, तेषां ज्वालामिर्दग्धः तं ज्वलदोङ्काररकारज्वालादग्धम् । कम् ? 'स्वम्' आत्मानम् । कथम्भूतम् ! 'अग्निपुरसंस्थम्' अग्निमण्डलमध्यस्थम् । 'ध्यात्वा' ध्यानं कृत्वा । 'पश्चात्' ध्यानानन्तरम् । 'अमुना' अनेन । 'अमृतमन्त्रेण' वक्ष्यमाणमन्त्रेण । 'स्नानम्' मन्त्रस्नानम् । 'करोतु' कुर्यात् ॥ ८॥
मन्त्रः-3 अमृते ! अमृतोद्भवे ! अमृतवर्षिणि ! अमृतं स्रावय स्रावय सं सं क्लीं क्लीं हूँ हूँ हाँ हाँ ह्रीं ह्रीं द्रावय द्रावय ह्रीं स्वाहा ।। अमृतमन्त्रोऽयम् ।।
निजोत्तमाङ्गामरभूधराग्रे संस्नापितः पार्श्वजिनेन्द्रचन्द्रः ।
क्षीराब्धिदुग्धेन सुरेन्द्रवृन्दैः स्वं चिन्तयेत् तजलशुद्धंगात्रम् ॥९॥ 'निजोत्तमाङ्गामरभूधराने' स्वकीयोत्तमानमेव अमरभूधरः-मेरुः तस्याग्रं-शिखरं तस्मिन् निजोत्तमाङ्गामरभूधराग्रे । 'संस्नापित:' सम्यक् स्नापितः। कः? 'जिनेन्द्रचन्द्रः पार्श्वः' । केन ? 'क्षीराब्धिदुग्धेन' क्षीरसमुद्रदुग्धेन । केः? 'सुरेन्द्रपृन्दैः' देवेन्द्रवृन्दैः। 'स्वं चिन्तयेत्'-आत्मानं ध्यायेत्। 'तज्जलशुद्धगात्रम्' तत्स्नानोदकेन शुद्धं शरीर यथा भवति ॥९॥ १ "ब्लें" इति ख पाठः । २ ज्वी क्ष्वी हं सः इति ख पाठः । ३ “धौतः" इति ख पाठः
For Private And Personal Use Only