________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयः सकलीकरणपरिच्छेदः
स्नात्वा पूर्वं मन्त्री प्रक्षालितरक्तवस्त्रपरिधानः । सम्मार्जितप्रदेशे स्थित्वा सकलीक्रियां कुर्यात् ॥ १ ॥
‘स्नात्वा' स्नानं कृत्वा । 'पूर्व' प्राक् । 'मन्त्री' मन्त्रवादी । 'प्रक्षालितरक्तवस्त्रपरिधानः' धौतलोहितवस्त्रपरिधानः । 'सम्मार्जितप्रदेशे' गोमयलिप्तप्रदेशे । 'स्थित्वा' उषित्वा । 'सकलीक्रियां' आत्मरक्षाविधानं कुर्यात् ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ड्राँ वामकराङ्गुष्ठे तर्जन्यां ह्रौं च मध्यमायां हूँ ।
ह्रौं पुनरनामिकायां कनिष्ठिकायां च हूः सुस्यात् ॥२॥
‘हाँ वामकराङ्गुष्ठे' वामकराङ्गुष्ठाग्रे हामिति बीजं विन्यसेत् । 'तर्जन्यां ह्रीँ' तर्जन्यङ्गुल्यये ह्रीमिति बीजम् । ‘मध्यमायां हूँ’ मध्यमाङ्गुल्यये हृमिति बीजम् । 'ह्रौं पुनरनामिकायाम् ' पुनः-पश्चाद्, अनामिकाङ्गुल्यग्रे ह्रौमिति बीजम् । 'कनिष्ठिकायां च ह:' कनिष्ठिकाङ्गुल्यग्रे हः इति बीजम्, चः समुच्चये । एवं यथानुक्रमेण पञ्चशून्यबीजस्थापना स्यात्-भवेत् । हूँ हूँ हूँ ह्रौं ह्रः अङ्गुल्यग्रेषु न्यासाक्षराणि ॥ २ ॥
पञ्चनमस्कारपदैः प्रत्येकं प्रणवपूर्वहोमान्त्यैः । पूर्वोक्तपञ्चशून्यैः परमेष्ठिपदाग्रविन्यस्तैः ॥ ३ ॥ शीर्ष वदनं हृदयं नाभिं पादौ च रक्ष रक्षेति ।
कुर्यादेतैर्मन्त्री प्रतिदिवसं स्वाङ्गविन्यासम् ॥ ४ ॥ कुलकम् ॥
‘पञ्चनमस्कारपदैः' अर्हत्सिद्धाचार्योपाध्यायसर्वसाधूनां नमस्कारपूर्वे पञ्चपदैः । कथम्भूतैः ? 'प्रत्येकं प्रणवपूर्वहोमान्त्यैः' पृथक् पृथग् कारपूर्वस्वाहाशब्दान्तैः । कथम्भूतैः ? 'परमेष्ठिपदाग्रविन्यस्तैः' पञ्चपरमेष्ठिनां पदा यथानुक्रमेण विशेषेण न्यस्तैः [कैः‘पूर्वोक्तपश्चशून्यैः' पूर्वोक्तः हाँ हाँ हूँ हूँ हूः इतिरूपैः पञ्चभिः शून्यैः-हकारैः ] ॥३॥ 'शीर्ष' मस्तकम् | 'वदनं' आस्यम्। 'हृदयं' हृत्स्थानम् | 'नाभि' नाभिस्थानम् । 'पाद' चरणद्वयम् । 'चः' समुच्चये । 'रक्ष रक्ष इति' पदद्वयं । अनेन प्रकारेण 'एतैः कथितमन्त्रैः । 'मन्त्री' मन्त्रवादी । 'प्रतिदिवस' दिन दिनं प्रति । 'स्वाङ्गविन्यासं' स्वकीयाङ्गन्यासम् । 'कुर्यात् करोतु ॥ ४ ॥
* नमो अरिहंताणं हूँाँ शीर्ष रक्ष रक्ष स्वाहा । ॐ नमो सिद्धाणं ह्रीं वदनं रक्ष रक्ष स्वाहा । ॐ नमो आयरियाणं हूँ हृदयं रक्ष रक्ष स्वाहा । नमो उवज्झायाणं हूँ नाभिं रक्ष रक्ष स्वाहा । ँ नमो लोए सव्वसाहूणं ह: पार्दो रक्ष रक्ष स्वाहा ॥ इत्यङ्गन्यासक्रमः ॥ द्विचतुःषष्ठचतुर्दशकलाभिरन्त्यस्वरेण बिन्दुयुतैः । कूटैर्दिग्विन्यस्तैर्दिशासु दिग्बन्धनं कुर्यात् ॥ ५ ॥
१ 'कार:' इति ख पाठ २ " युतः" इति ख पाठः
For Private And Personal Use Only