________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११]
मन्त्रिलक्षणाधिकारः १। गुरुजनहितोपदेशो गततन्द्रो निद्रया परित्यक्तः ।
परिमितभोजनशीलः स स्यादाराधको देव्याः ॥८॥ 'गुरुजनहितोपदेशः' गुरुजनेभ्यः सकाशाद् हितः-आहितः उपदेशो येन असौ गुरुजनहितोपदेशः। 'गततन्द्रः' निरालस्यः। 'निद्रया परित्यक्तः' अतिनिद्रया रहितः। 'परिमितभोजनशीलः' परिमितं भोजनं शीलं यस्य असौ परिमितभोजनशीलः। 'सः' एवंगुणविशिष्टः पुरुषः। 'देव्याः' पद्मावत्याः। 'आराधकः' साधकः। 'स्यात्' भवेत् ।।८॥
निर्जितविषयकषायो धर्मामृतजनितहर्षगतकायः ।
गुरुतरगुणसम्पूर्णः स भवेदाराधको देव्याः ॥९॥ "निर्जितविषयकषायः' विषयाः पश्चेन्द्रियजादयः, कषायाः क्रोधादयः, विषयाश्च कषायाश्च विषयकषायाः निजिता विषयकषाया येन असौ निर्जितविषयकषायः। पुनः कथम्भूतः? 'धर्मामृतजनितहर्षगतकायः' धर्म एवामृतं धर्मामृतं, तेन जनितो हर्षः धर्मामृतजनितहर्षः, धर्मामृतजनितहर्ष गतः-प्राप्तः काय:-शरीरं यस्यासौ धर्मामृतजनितहर्षगतकायः। 'गुरुतरगुणसम्पूर्णः' विशिष्टतरगुणैः सम्पूर्णः । ‘स भवेदाराधको देव्याः' स एवंगुणविशिष्टः पुरुषः देव्याः-पद्मावत्या आराधको भवेत् स्यात् ॥ ९॥
शुचिः प्रसन्नो गुरुदेवभक्तो दृढव्रतः सत्यदयासमेतः ।
दक्षः पटु/जपदावधारी मन्त्री भवेदीदृश एव लोके ॥१०॥ _ 'शुचिः' बाह्याभ्यन्तरशुचिः। 'प्रसन्नः' सौम्यचित्तः। 'गुरुदेवभक्तः' गुरुदेवेषु भक्तः। 'दृढव्रतः गृहीतव्रतेष्वतिदृढः। 'सत्यदयासमेतः' अननृतवाक्यदयासमेतः। 'दक्षः' अतिचतुरः। 'पटुः' मेधावी। 'बीजपदावधारी' बीजाक्षरपदावधारणं विद्यते यस्यासौ बीजपदावधारी। 'ईदृशः' एवंविध एव पुरुषः। 'लोके' लोकमध्ये। 'मन्त्री' मन्त्रवादी 'भवेत्' स्यात् ॥१०॥
एते गुणा यस्य न सन्ति पुंसः क्वचित् कदाचिन्न भवेत् स मन्त्री ।
करोति चेद्दर्पवशात् स जाप्यं प्राप्नोत्यनर्थं फणिशेखरायाः ॥११॥ "एते गुणा यस्य न सन्ति पुंसः यस्य पुरुषस्य एते गुणा न सन्ति-न विद्यन्ते। 'क्वचित् यत्र क्वापि प्रदेशे। 'कदाचित् कस्मिंश्चित् काले। 'सः' एवंविशिष्टः पुमान् । 'मन्त्री मन्त्रवादी। 'न भवेत्' न स्यात् । 'सः' पुरुषः। 'दर्पवशात्' उद्धृतवृत्त्या । 'जाप्य' मन्त्रजाप्यं । 'करोति चेत्' यदि करोति । 'प्राप्नोत्यनर्थ फणिशेखरायाः' पद्मावतीदेव्याः सकाशाद् अनर्थ प्राप्नोति-आपद्यते ॥ ११ ॥
इत्युभयभाषाकविशेखरश्रीमलिषेणसृरिविरचिते भैरवपद्माक्तीकल्पे
__ मन्त्रिलक्षणाधिकारः प्रथमः ॥१॥ 'इति' एवं 'श्रीमलिषेणसूरिविरचिते' श्रिया उपलक्षितो मल्लिषेणः श्रीमल्लिषेणः स चासौ सूरिश्च श्रीमल्लिषेणसूरिः तेन विरचितः-कथितः तस्मिन् श्रीमक्लिषेणसूरिविरचिते। क्व ? भैरवपद्मावतीकल्पे' भैरवपद्मावतीदेव्याः मन्त्रकल्पे मन्त्रिलक्षणाधिकारः प्रथमः ॥ १ ॥
For Private And Personal Use Only