________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे [श्लोकाः ॥४आदौ साधकलक्षणं सुसकली देव्यर्चनायाः क्रम
पश्चाद् द्वादशयन्त्रभेदकथनं स्तम्भोऽङ्गनाकर्षणम् । यन्त्रं वश्यकरं निमित्तमपरं वश्यौषधं गारुडं
वक्ष्येऽहं क्रमशो यथा निगदिताः कल्पेऽधिकारास्तथा ॥४॥ ग्रन्थस्यादौ 'साधकलक्षणं' मन्त्रसाधकानां लक्षणम् । 'सुसकलीम्' सम्यक्सकलीकरणक्रियाम् । 'देव्यर्चनायाः क्रमम्' देव्याराधनविधानम्। 'पश्चात्' देव्याराधनविधानानन्तरम् । 'द्वादशयन्त्रभेदकथनम्' द्वादशप्रकारयन्त्राणां भेदव्याख्यानम् । 'स्तम्भम्' क्रोधादिस्तम्भनयन्त्राधिकारम्। ['अङ्गनाकर्षणं' ख्याकर्षणाधिकारम् । 'यन्त्रं वश्यकर' वशीकरणयन्त्र निरूपणाधिकारम् ।] 'निमित्तम्' दर्पणादिनिमित्ताधिकारम् । 'अपरं' अन्यत् । 'वश्योषधं ख्यादिवश्यौषधाधिकारम् । 'गारुडं' गारुडाधिकारम् । 'कल्पेऽधिकाराः' अस्मिन् कल्पे अधिकाराः 'यथा' येन प्रकारेण 'निगदिताः' प्रतिपादिताः ‘तथा' तेन प्रकारेण 'अहं' श्रीमल्लिषेणाचार्यः 'क्रमशः' यथापरिपाट्या 'वक्ष्ये' प्रतिपादयिष्ये ।। ४ ।।
इति दशविधाधिकारैर्ललितार्याश्लोकगीतिसवृत्तैः ।
विरचयति मल्लिषणः कल्पं पद्मावतीदेव्याः ॥५॥ _ 'इति दशविधाधिकारैः' इति एवं प्राक्कथित्दशप्रकाराधिकारैः। कथम्भूतैः ? ' ललितार्याश्लोकगीतिसवृत्तैः' ललिता च सा आर्या च ललितार्या, श्लोकः-द्वात्रिंशदक्षरनिबद्धः, गीतीति उपगीतिः, सद्वृत्तैः-षड्विंशतिजातिवृत्तैः । 'विरचयति' विशेषेण रचयति। कः कर्ता ? मल्लिषेणः। कम् ? कल्पम् । कस्याः ? 'पद्मावतीदेव्याः' भैरवपद्मावतीदेव्याः ॥ ५॥
निर्जितमदनाटोपः प्रशमितकोपो विमुक्तविकथालापः ।
देव्यर्चनानुरक्तो जिनपदभक्तो भवेन्मन्त्री ॥६॥ 'निर्जितमदनाटोपः' निःशेषेण जितो मदनस्य आटोपो-विजृम्भणं येन असौ निर्जितमदनाटोपः । 'प्रशमितकोपः' प्रकर्षण शमितः कोपः येनासौ प्रशमितकोपः। 'विमुक्तविकथालापः' विशेषेण मुक्तः-त्यक्तः विकथाया आलापो विकथालाप:-मिथ्यालापो येनासौ विमुक्तविकथालापः। 'देव्यर्चनानुरक्तः' देवी-पद्मावती तस्या अर्चने-पूजने अनुरक्तः। 'जिनपदभक्तः श्रीजिनेश्वरपदकमलभक्तः। असौ 'मन्त्री मन्त्रवादी एवंगुणयुक्तो 'भवेत्' स्यात् ॥ ६॥
मन्त्राराधनशूरः पापविदूरो गुणेन गम्भीरः ।
मौनी महाभिमानी मन्त्री स्यादीदृशः पुरुषः ॥७॥ मन्त्रस्याराधनं मन्त्राराधनं तस्मिन् शूरः-निर्भयः असौ मन्त्राराधनशूरः। पुनः कथम्भूतः ? 'पापविदरः' दुष्कर्मकरणविदरः। 'गुणेन गम्भीरः' सकलगुणैः कृत्वा गम्भीरः । मौनं विद्यते यस्यासौ मौनी । 'महाभिमानी' महांश्चासौ अमिमानश्च महामिमानः, स विद्यते यस्यासौ महाभिमानी। 'ईदृशः पुरुषः' एवंगुणविशिष्टः पुमान् । 'मन्त्री मन्त्रवादी स्यात् ॥ ७ ॥
For Private And Personal Use Only