________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥, ही श्री पार्श्वनाथाय नमः ॥ कविशेखरश्रीमल्लिषेणमूरिविरचितः
भैरवपद्मावतीकल्पः। श्रीबन्धुषेणप्रणीतविवरणोपेतः ।
प्रथमो मन्त्रिलक्षणाधिकारः श्रीमच्चातुर्णिकायामरखचरवधूनृत्यसङ्गीतकीर्तिव्याप्ताशामण्डलं मण्डितसुरपटहाद्यष्टसत्प्रातिहार्यम् । नत्वा श्रीपार्श्वनाथ जितकमठकृतोद्दण्डघोरोपसर्ग
पद्मावत्या हि कल्पप्रवरविवरणं वक्ष्यते बन्धुषेणैः ॥ कमठोपसर्गदलनं त्रिभुवननाथं प्रणम्य पार्श्वजिनम् ।
वक्ष्येऽभीष्टफलप्रद-भैरवपद्मावतीकल्पम् ॥१॥ 'कमठोपसर्गदलनं' कमठेन कृतो य उपसर्गः तं दलयतीति कमटोपसर्गदलनः तं कमठोपसर्गदलनम् । पुनः कथम्भूतम् ? 'त्रिभुवननाथम् ' त्रिलोकाधीश्वरम् । कम् ? 'पार्श्वजिनम्' श्रीपार्श्वजिनेश्वरम् । किं कृत्वा ? 'प्रणम्य' प्रकर्षेण नमस्कृत्य, 'वक्ष्ये' प्रतिपादयिष्ये । कम् ? 'भैरवपद्मावतीकल्पम्' भैरवी चासौ पद्मावती च भैरवपद्मावती, तस्याः कल्पः भैरवपद्मावतीकल्पः, तं भैरवपद्मावतीकल्पम् । कथम्भूतम् ? 'अभीष्टफलप्रदम्' अभिलषितं फलं प्रददातीति अभीष्टफलप्रदः तं अभीष्टफलप्रदं वक्ष्ये इति सम्बन्धः ॥ १॥
पाशफलवरदगजवशकरणकरा पद्मविष्टरा पद्मा।
सा मां रक्षतु देवी 'त्रिलोचना रक्तपुष्पाभा ॥२॥ 'पाशफलवरदगजवशकरणकरा' पाशश्च फलं च वरदश्च गजवशकरणं च पाशफलवरदगजवशकरणानि, तानि वामोर्ध्वकरादिक्रमेण विद्यन्ते यस्याः सा पाशफलवरदगजवशकरणकरा | पुनः कथम्भूता? 'पद्मविष्टरा' पद्ममेव विष्टरं-आसनं यस्याः सा पद्मविष्टरा। पुनः कथम्भूता? 'त्रिलोचना' त्रीणि लोचनानि विद्यन्ते यस्याः सा त्रिलोचना । पुनः कथम्भूता? 'रक्तपुष्पाभा' रक्तपुष्पवद् आभा-दीप्तिर्यस्याः सा रक्तपुष्पाभा । का सा ? 'पद्मा' पद्मावती नाम । 'देवी' देवता । 'मां' प्रन्थकर्तारं श्रीमल्लिषेणाचार्य 'रक्षतु' पातु ॥२॥
तोतला त्वरिता नित्या त्रिपुरा कामसाधिनी ।
देव्या नामानि पद्मायास्तथा त्रिपुरभैरवी ॥३॥ तोतलादीनि त्रिपुरभैरवीपर्यन्तानि पद्मावतीदेव्याः पर्यायनामानि भवन्ति-जायन्ते ॥३॥ १ 'रक्ताभा लोचनत्रितया' इति ख पाठः
For Private And Personal Use Only