________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० ३१]
श्रीलघुशान्तिस्तवः । भव्यानां कृतसिद्धे ! नितिनिर्वाणजननि ! सत्त्वानाम् । अभयप्रदाननिरते ! नमोऽस्तु स्वस्तिप्रदे ! तुभ्यम् ॥९।। भक्तानां जन्तूनां शुभावहे ! नित्यमुद्यते ! देवि !। सम्यग्दृष्टीनां धृतिरतिमतिबुद्धिप्रदानाय ॥१०॥ जिनशासननिरतानां शान्तिनतानां च जगति जनतानाम् ।
श्रीसम्पत्कीर्तियशो वर्धनि ! जयदेवि ! विजयस्व ॥११॥ युग्मम् । मोक्षमार्गमिति साधवः-मुनयः, उभयलोकफलं साधयन्ति वा साधवो, धर्मशीला तेषां चकारात् अन्येषां एवंविधपूर्वोक्तवर्णने हे विजये ! त्वं 'जीयाः' जययुक्ता भूयाः॥८॥
कृता सिद्धिः-सर्वकार्येषु विघ्नक्षयलक्षणा यया सा तस्याः आमन्त्रणम् । हे 'निर्वृति निर्वाणजननि !' निर्वत्तिः-निर्वाणं-सांसारिक सुखं यद हेमचन्द्रः-'स्यादथो शर्म निर्वतः,
निर्वाण-आत्यन्तिकं सुखं मोक्षः ततो द्वन्द्धः, निर्वृतिनिर्वाणे जनयति-उत्पादयति । अथवा उत्पादनहेतोनिवृतिनिर्वाणयोर्जननी-माता तस्याः आमन्त्रणम् । 'माताम्बा जननी' इत्यभिधानचिन्तामणिः। केषाम्. ? भव्यानाम्-आसन्नसिद्धिगतीनाम् । हे 'अभयप्रदाननिरते!' अभयस्य-निर्भयस्य प्रदाने-वितरणे निरता-सावधाना तस्याः आमन्त्रणम् । केषाम् ? सत्वानाम्-प्राणिनाम् । हे 'स्वस्तिप्रदे !' स्वस्ति-अविनाशम् प्रदत्ते या सा तस्या आमन्त्रणम् ! तुभ्यं नमोऽस्तु ॥९॥
अत्र गाथायुग्मेन सम्बन्धः ।
हे शुभावहे ! शुभं-कल्याणं आवहति-समन्तात् प्रापयति या सा तस्या आमन्त्रणम् । केषाम् ? 'भक्तानां जन्तूनाम्' भक्तिमतां प्राणिनाम् , हे देवि ! हे विजये ! हे नित्यमुद्यते :-हे सदा सावधाने ! किमर्थम् ? 'धृतिरतिमतिबुद्धिप्रदानाय' धृतिश्च रतिश्च मतिश्च बुद्धिश्च धृतिरतिमतिबुद्धयः-सन्तोष-चित्ताभिरता शास्त्रोत्था तात्कालिक्यः तासां प्रति दर्शनीया। "मतिः अप्राप्तविषया वुद्धिः साम्प्रतदर्शिनी। अतीतार्था स्मृतिज्ञेया प्रज्ञा कालत्रयात्मिका ॥" ___इत्युक्तेः। समासः पूर्ववदेवेति । केषाम् ? सम्यक्-सत्या दृष्टिः-दर्शनम् , येषां ते, तेषाम् ॥१०॥
__ हे 'श्रीसम्पत्कीर्तियशोवर्धनि !' श्रीः-शोभा लक्ष्मीर्वा, सम्पत् नवधा ऋद्धिः, कीर्तिः-श्लाघा ख्यातिर्वा, यशः सर्वदिग्गामिप्रसिद्धिविशेषः, ततो द्वन्द्वः। तानि वर्द्धयति तस्याः आमन्त्रणम्' क्व ? 'जगति' लोके । केषाम् ? जन्तूनाम् । कथम्भूतानाम् ? जिनशासने ये निरता-निश्चला भक्तिमत्वात् तेषाम्। पुनः केषाम् ? शान्ति नताः शान्तिनताः तेषां चकारात् सेवास्वसेवाकारिणाम् । क्वचित् 'जनतानाम्' इति पाठः ।
For Private And Personal Use Only