________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
श्रीलघुशान्तिस्नवः ।
[परि० ३१ भवतु नमस्ते भगवति ! विजये ! सुजये ! परापरैरजिते !। अपराजिते ! जगत्यां जयतीति जयावहे ! भवति ! ॥७॥ सर्वस्यापि च संघस्य भद्रकल्याणमङ्गलप्रददे ।।
साधूनां च सदा शिवसुतुष्टिपुष्टिप्रदे ! जीयाः ॥८॥ इत्यपि कुत्रचित् पाठो दृश्यते तत्र नमत तं इति पदद्वयीतः कर्तृपदं ग्राह्यम् । भो भव्याः ! शेषं पूर्ववत् । इति नुता अग्रे वक्ष्यमाणप्रकारेण स्तुता ॥६॥
भगोऽस्त्यास्या भगवती तस्यामन्त्रणे हे भगवति ! हे समत्रैश्वर्यादियुक्ते ! । विजयोऽस्त्स्या विजया तस्या आमन्त्रणे हे विजये ! हे अन्येषां निन्दाकारिणां पराभवरहिते !। सुष्ठु-शोभनो जयोऽस्त्यस्याः सुजया तस्या आमन्त्रणे । 'विजये ! सुजये!' इत्यत्राभ्रादित्त्वाद् अप्रत्यये हे विजयवति ! हे सुजयवति ! 'हे अजिते !' न जिता अजिता तस्या आमन्त्रणे । कैः? पराः-प्रधाना अपरे-अन्यसुराः, अथवा परे-अन्ये, अपरा असहमानाः शत्रवस्तैः हेऽपराजिते ।-न पराजिता-भग्ना कस्यापि परत इत्य पराजिता तस्या आमन्त्रणम् 'जितो भग्नः पराजितः' इत्यभिधानचिन्तामणिः । क्व ? जगत्याम्-पृथिव्याम् । अथवा जगत्यां-लोके त्रैलोक्यामिति पूर्वोक्तप्रकारवर्णिते । अपि हे जयावहे ! जयमावहति समन्तात् प्रापयत्यन्यान् जयकारित्वात् जयावहा तस्या आमन्त्रणे । हे विजये ! भवति !। त्वम्। भवच्छब्दस्त्रीलिङ्गसम्बोधनरूपम् । या ईदृशी 'जयति' सर्वोत्कर्षेण वर्तते । तस्मै 'ते' तुभ्यम् नमस्कारो भवत्वित्यर्थः ।।
इत्यनेन चतस्रोऽपि देव्यो विजया जया अजिता अपराजिताख्या दर्शिताः ॥७॥
हे 'भद्रकल्याणमङ्गलप्रददे' ! भद्राणि च कल्याणानि च मङ्गलानि च भद्रकल्याणमङ्गलानि-सुखक्षेमपापोपशान्तिरूपाणि । अथवा-भद्रं-श्रेष्ठम्, कल्यं-नीरुक् तं अणन्ति आह्वयन्ति भद्रकल्याणानि एवं विधानि यानि मङ्गलानि श्रेयांसि । यदनेका. र्थकोषः
"भद्रं तु मङ्गले । मुस्तकश्रेष्ठयोः साधौ काञ्चने करणान्तरे।'
तानि प्रकर्षेण ददते या सा भद्रकल्याणमङ्गलप्रददा । तस्या आमन्त्रणम् । 'दद दाने' इति धातोः प्रयोगः । कस्य ? 'सर्वस्यापि च सङ्घस्य ' समस्तस्य चतुर्विधस्यापि सबस्य। चकारात् ध्यातुरस्य सङ्घस्य। हे 'सदा शिवतुष्टिपुष्टिप्रदे!' सदा-सर्वदा शिवं च तुष्टिश्च पुष्टिश्च शिवतुष्टिपुष्टयः निरुपद्रवता चित्तसन्तोष धर्मार्थकामवृद्धयः ताः प्रकर्षेण ददातीति शिवतुष्टिपुष्टिप्रदा। अथवा न शिवतुष्टिपुष्टयः अशिवतुष्टि पुष्टयः ताः प्रद्यति-खण्डयति या सा अशिवतुष्टिपुष्टिप्रदा। तस्याः आमन्त्रणम् । केषाम् ? उत्तमक्षमादिभिः तपोविशेषैर्भावितात्मानः सानोति, अथवा सम्यग्दर्शनादिभिः साधयन्ति
For Private And Personal Use Only