________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० ३१ ] .
श्रीलघुशान्तिस्तवः । सर्वामरसुसमूहस्वामिकसम्पूजिताय न जिताय । भुवनजनपालनोद्यततमाय सततं नमस्तस्मै ॥४॥ सर्वदुरितौघनाशनकराय सर्वाशिवप्रशमनाय । दुष्टग्रहभूतपिशाचशाकिनीनां प्रमथनाय ॥५॥ युग्मम् ॥ यस्येतिनाममन्त्रप्रधानवाक्योपयोगकृततोषा।
विजया कुरुते जनहितमिति च नुता ! नमत तं शान्तिम् ॥६॥ पुनः०? 'शस्याय' प्रशंसायोग्याय। पुनः० कथं० ? त्रयाणां लोकानां समाहारास्त्रिलोकीजगत्त्रयी तत्र भवाः त्रैलोक्याः-सुरमनुजदनुजाः । अथवा त्रिलोक्येव त्रैलोक्यं तैस्तेन वा पूजितः, तस्मै ॥३॥
तस्मै शान्तये सततं-सदा नमः नमस्कारो भवतु । कथम्भूताय तस्मै ? सर्वेषांसमस्तानां अमराणां-देवानां सह समूहैर्वर्तते सलमूहाः-समूहसहिताः ये स्वामिन एव स्वामिकाः, स्वार्थे कः। अर्थाच्छादयश्चतुःषष्टिरिन्द्रास्तैः सम्-सम्यक् प्रकारेण त्रिकरणशुद्धया पूजितः तस्मै । केषुचिदादर्शषु 'सर्वामरसुसमूह' इति पाठो दृश्यते, तत्रैवं व्याख्येयम्-अमराणां सुसमूहाः शोभनसमुदायाः, सर्वे येऽमरसुसमूहाः सर्वामरसुसमूहाः तेषां स्वामिकास्तैः सम्पूजितस्तस्मै । पुनः० कथ०? 'न जिताय' कैरपि न परि०भूताय । पुनः०? भुवनस्य जनाः भुवनजनास्तेषां पालने अतिशयेन उद्यत-उद्यततमस्तस्मै ॥४॥
पुनः कथ.? सर्वाणि सर्वेषां वा यानि दुरितानि-पापानि दुष्कृतं दुरितं पापम् इत्यभिधानचिन्तामणिः । तेषां ओघः-समूहस्तस्य नाशनं-विनाशनं कुरुत इति सर्वदुरितौधनाशनकरस्तस्मै । पुनः० ? सर्वाणि सर्वेषां वा यानि अशिवानि-अरिष्टानि प्रशमयति निवर्तयति सर्वाशिवप्रशमनस्तस्मै । पुनः कथ०? प्रमथ्नातीतिप्रमथनस्तस्मै । कासाम् ? दुष्टाः-क्रूराश्च अथवा गोचरेऽशुभफलप्रदाश्च ते ग्रहाश्च भूताश्च पिशाचाश्च शाकिन्यश्च दुष्टग्रहभूतपिशाचशाकिन्यः, तासां पीडानिवारकत्वात् भगवच्छ्रीशान्तिनाम्नि स्मृते आसां पीडा विलीयन्त इति भावः । चतुर्यु पदेषु भूतपिशाची द्वितीयप्रथमनिकायान्तर्वर्तिनौ व्यन्तरविशेषौ ज्ञेयौ ॥५॥
भो जनता ! जनानां समूहः तं शान्ति-षोडश जिनं नमत-प्रतीभवत । यत्तदोनित्याभिसम्बन्धात् तमिति कम् ? यस्य श्रीशान्तिनाथस्य इत्यमुना पूर्वोक्तप्रकारेण नामैव मन्त्रः तेन प्रधानं यद् वाक्य-वचः तस्य उपयोग-उच्चारणरूपः स्मरणरूपो वा तेन कृतः तोषो-मनसि सन्तोषो यया सा नाममन्त्रप्रधानवाक्योपयोगकृततोषा इदृशी सती विजयते शत्रुन् , विजयते वा शत्रूणामस्या इति विजया-विजया नाम्नी देवी, इतिवक्ष्यमाणप्रकारेण । जनानां हितं जनहितं कुरुते 'इति च नुता नमत तं शान्तिम्'
For Private And Personal Use Only