________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिशिष्ट ३१
श्रीमानदेवसूरिसूत्रितः श्रीलघुशान्तिस्तवः ।
शान्ति शान्तिनिशान्तं शान्तं शान्ताशिवं नमस्कृत्य । स्तोतुः शान्तिनिमित्तं मन्त्रपदैः शान्तये स्तौमि ॥ १ ॥ श्रीधर्मप्रमोदगणिविरचिता वृत्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
नमः श्रीशान्तये ।
श्रीमन्तं बोधिदं नत्वा सदर्थज्ञानसिद्धये । कुर्वे शान्तिस्तवस्याहं व्याख्यामेतां सुबोधदाम् ॥ १॥ तत्र पूर्वमस्य स्तवस्योत्पत्तिः कथ्यते । सा चेयम्
सूरयो मानदेवाख्या बृहद्गच्छे पुराऽभवन् । एकदाऽस्थुश्चतुर्मासीं नड्डूलनगरे च ते ॥१॥ तस्मिन्नेव हि समये शाकम्भरीपुरेऽजनि । श्रीसङ्घः शाकिनीमार्युपद्रवेणार्दितो भृशम् ||२॥ महातिशय सूरीन्द्र मानदेवान्तिके तदा । सङ्केनालोच्य मनुजाः प्रेषितास्तत्र ते गताः ॥३॥ विहिता तैः पुरः सूरेर्विशप्तिर्विनयान्वितैः । सङ्घोपद्रवविच्छित्यै कृत्वाऽयं प्रेषितः स्तवः ॥४॥ पद्मासुजयाविजयापराजितादेव ताप्तसान्निध्यैः । श्रीमानदेव गुरुभिर्जेनमतोत्साहकरणपरैः ॥५॥ पठनादेतस्य ततः स्वयमन्यसमीपतश्च वा श्रवणात् ।
एतदभिमन्त्रिताम्भोबिन्दुवितरणाद् गता मारी ॥६॥
श्रीसङ्घस्य समुत्पन्ना शान्तिर्दुःखविनाशिनी । एतत्स्तवोत्पत्तिरियमेवं गुरुमुखाच्छ्रुता ॥७॥ उक्तं च तद्गच्छीय श्रीगुरूणामवदाते
न मूलनाम नगरे कृतमेघकालैः शाकम्भरीपुरसमागतसङ्घवाचा । शान्तिस्तवः प्रबलमारिभयापहारी यैर्निर्ममे सुविहितक्रममार्गदीपैः ॥ अथ सूत्रं प्रारभ्यते - ' शान्ति शान्तिनिशान्तं. ' व्याख्या
For Private And Personal Use Only