________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८ अनुभवसिद्धमन्त्रद्वात्रिंशिका
[परि० ३० सिद्धं वा यदि वा साध्यं मन्त्रं प्राप्य दुरासदम् । शिष्येणापि विधातव्या सद्गुरोर्भक्तिरीदृशी ॥१०॥ भोजनं वस्त्रदानं च पात्रदानं तथैव च । दानं सारसुवर्णस्य विधातव्यं मनीषिणा ॥११॥ पादप्रक्षालनं चैव पृष्टिसंवाहनं तथा । स्वयमासनदानं च कर्तव्यं सद्गुरोरिह ॥१२॥ दक्षो जितेन्द्रियो धीमान् कोपानलजलोपमः । सत्यवादी विलोभश्च मायामदविवर्जितः ॥१३॥ मानत्यागी दयायुक्तः परनारीसहोदरः । जितेन्द्री गुरुभक्तश्च मन्त्रग्राही भवेन्नरः ॥१४॥ सुलग्ने शोभने वारे तिथिनक्षत्रचन्द्रके । मन्त्रादानं विधातव्यं गुरुपूजापुरःसरम् ॥१५॥ दीपोत्सवे व्यतोपाते चन्द्रसूर्योपरागयोः । विशेषेण विधातव्यं मन्त्रादानं यथाविधि ॥१६॥ श्रुतसागरमालोड्य महारत्नसमा मया । एते मन्त्राः समाख्याता योग्यानां हितकाम्यया ॥१७॥ परीक्षितगुणानां तु भक्तियुक्तशरीरिणाम् । श्रद्धावतां प्रदातव्याः सुखमिच्छुभिरात्मनः ॥१८॥ मायाहङ्कारयुक्तेषु श्रद्धाहीनदुरात्मसु । निर्गुणेषु च एतांस्तु मन्त्रान् दाता स्वदोषतः ॥१९॥ सोऽनन्तं लप्स्यते सद्यः संसारं दुःखरूपिणम् । अनन्तानि च दुःखानि शिष्यस्यापि प्रदास्यति ॥२०॥ इति ज्ञात्वा प्रयत्नेन एकान्ते गुरुभक्तितः । भक्तियुक्ताय शिष्याय दद्यान्मन्त्रमनुत्तरम् ॥२१॥ ......द्वात्रिंशिकाया यः करिष्यति । सदभ्यस्तं सदा तस्य सर्वज्ञत्वं भविष्यति ॥२२॥ इह लोकेऽपि दुःखानि दारिद्रयाणि च दूरतः । क्षयं तस्य प्रयास्यन्ति योऽमुष्मै भक्तिबन्धुरः ॥२३॥ तस्मादेतां महामन्त्रद्वात्रिंशिकां महामतिः ।
अनाख्येयामयोग्यानां स्वयं नित्यं विभावयेत् ॥२४॥ इत्याचार्यश्रीभद्रगुप्तविरचितायामनुभवसिद्धमन्त्रसिद्धद्वात्रिंशिकायांगुरुशिष्य
शुभाशुमसंसूचको नाम पञ्चमोऽधिकारः समाप्तः ॥५॥
For Private And Personal Use Only