________________
Shri Mahavir Jain Aradhana Kendra
परि० ३०]
www.kobatirth.org
अनुभवसिद्धमन्त्रद्वात्रिंशिका
सप्तवर्णादिमं मन्त्रं षष्ठस्वरविराजितम् । विन्दुपेतं च ह्रीं हूँ फडिति वर्णविभूषितम् ॥४६॥ सर्वकर्मकरं मन्त्रं श्रीमत्पार्श्वजिनेशितुः । लक्षजापप्रदानेन साधयित्वा स्फुटं कुरु ॥४७॥ राजद्वारे व्यवहारे च सभायां देशनाविधौ । विद्वद्विवादवेलायां परविद्यान्तकर्मणि ॥४८॥ वश्ये विद्वेषणे मोहे पापोच्चाटनकर्मणि । तीर्थप्रभावनादौ च रुष्टानयनकर्मणि ॥ ४९ ॥ एष एव महामन्त्रो महाकल्याणकारणम् । सर्वदा सर्वकार्येषु स्मरणीयो मनीषिभिः ॥५०॥
इत्याचार्यश्रीभद्रगुप्तविरचितायामनुभवसिद्धमन्त्रद्वात्रिंशिकायां शुभाशुभादिनिरूपणमन्त्राष्टकवर्णनो नाम चतुर्थोऽधिकारः ।
अथातः सम्प्रवक्ष्यामि गुरुशिष्य शुभाशुभम् । येन विज्ञातमात्रेण कल्याणं जायते द्वयोः ॥१॥ गुरुणा ज्ञाततत्वेन सकलागमवेदिना । शशाङ्कशान्तचित्तेन क्षमागुणविराजिना ॥२॥ पूर्वमात्महितं ज्ञात्वा सूरिणा गुणभूरिणा । शिष्यस्यापि हितं चिन्त्यं दातुकामेन किञ्चन ॥३॥ सिद्धं साध्यं च विज्ञेयं सुसिद्धं शत्रुरूपिणम् । मृत्युदं चैव निःशेषं मन्त्रं मन्त्रविदो विदुः ॥४॥ सिद्धं सारफलं ज्ञेयं दातव्यं भक्तिशालिने । साध्यं साध्यफलं चापि देयं तदपि सूरिणा ॥५॥ स्वल्पफलं सुसिद्धं सुमन्त्रो यच्छति देहिनाम् । सोऽपि कस्यापि दातव्यस्तद्धितस्य शरीरिणः ||६|| शत्रुरूपा च शत्रुस्तु मृत्युदो मृत्युनामकः । नैव कस्यापि दातव्यौ परलोकफलार्थिभिः ॥७॥ अ-इ-उ-प-ओ पञ्चैतान् स्वरान् कोष्ठकपञ्चके । कादिकान हान्तवर्णाश्च डढणाक्षरवर्जितान् ॥८॥ वर्णक्रमेण संलिख्य मातृकाचक्रमुज्ज्वलम् । योग्यायोग्यं ततो विद्यान्मन्त्रशिष्य द्वयोरपि ॥ ९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
१२७