________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Cyanmandir
१२५
परि० ३०]
अनुभवसिद्धमन्त्रद्वात्रिंशिका ॐ ह्रीं ल्वाद्वापलक्ष्मी व हंसः स्वाहा च विन्यसेत् । विश्वोपकारिणी विद्यामेतां तत्त्वविदो विदुः ॥१६॥ सहस्रदशकं जातीपुष्पैः पूर्व प्रजप्यते । हूयते तु दशांशेन पश्चात् विद्या प्रसिद्धथति ॥१७॥ आशामात्रेण संसिद्धा करोत्येषा शरीरिणाम् । जङ्गमे स्थावरे चापि विषे वीर्यविनाशनम् ॥१८॥ एतद् विद्यात्रयं भव्यजीवोपकृतिहेतवे । मयागममहाम्भोधिमध्यादुद्धृत्य दर्शितम् ॥१९॥ मिथ्यादृशां न दातव्यं दातव्यं सदृशां पनः । दातव्यं योग्यजीवानामयोग्यानां न दापयेत् ॥२०॥ षान्तं हकारसंयुक्तं लकारं सान्तसंयुतम् । रेफस्वरकलाक्रान्तं विन्दूपेतं महाक्षरम् ॥२१॥ इदमेवाक्षरं लक्षवारं रक्तप्रसूनकैः । जाडयं हरति जन्तूनां जप्तं सज्ज्ञानमुद्रया ॥२२॥ जप्तं करोति जन्तूनां वश्याकृष्टिमहोदयम् । इदमेवाक्षरं लक्षवारं रक्तप्रसूनकैः ॥२३॥ गजा गोयोषितः क्षुद्रजन्तवो यान्ति वश्यताम् । पतद्वीजप्रभावेन साधकानामसंशयम् ॥२४॥ विद्वद्वादिमहेभानां स्तम्भकुम्भविदारणे । पतदेव परं बीजं कण्ठीरवपदायते ॥२५॥ ॐ ह्रीं देवि ! नमस्तुभ्यमम्भोरुहनिभानने ।। नमनभश्चरीमूला(चूला)माणिक्यारुणितक्रमे ! ॥२६॥ लक्षत्रयप्रजापेन जातीपुष्पैः प्रसिद्धयति । सरस्वती महादेवी दिव्या कमलवासिनी ॥२७॥ गद्यपद्यमयी वाणी गङ्गानीरानुरागिणी। निर्याति सततं तस्माद् यस्य तुष्टा सरस्वती ॥२८॥ बन्धे बोधेऽपि तेषां त्वविश्रान्तं जृम्भते मतिः । येषामेषा महादेवी वरदीभूतमानसा ॥२९॥ प्रबन्धसेतुबन्धेन रामस्येव पताकिनी । तेषां प्रयाति सत्कीर्तिः पारं नीरपतेरपि ॥३०॥
For Private And Personal Use Only