________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
[परि० ३०
अनुभवसिद्धमन्त्रद्वात्रिंशिका । भूतादिदोषविद्रावं योषिता गर्भसम्भवम् । ___ सौभाग्यादिगुणा चैवं यन्त्रमेतत् करोत्यहो ॥४६॥ प्रणवं परमं तत्त्वं मायाबीजविराजितम् ।
परमेष्ठयादिपदं चैव ह्रींकारं च नमः पदम् ॥४७॥ त्रिसन्ध्यं विजने भूत्वा जातिपुष्पैरथोत्तमैः।
अष्टोत्तरशतं जाप्यमस्य सर्वार्थसिद्धये ॥४८॥ इत्यावृष्टिं च वश्यादौ मन्त्राष्टकमुदीरितम् ।
श्रुताम्भोधिमवगाह्य रत्नोच्चयमिवोज्ज्वलम् ॥४९॥ इत्याचार्यश्रीभद्रगुप्तविरचितायामनुभवसिद्धमन्त्रद्वात्रिंशिकायां वश्या
कृष्ट्यादिकर्मकर मन्त्राष्टकवर्णनो नाम द्वितीयोऽधिकारः॥
POPOS
For Private And Personal Use Only