________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११७
परि० ३०]
अनुभवसिद्धमन्त्रद्वात्रिंशिका। अथातः संप्रवक्ष्यामि वश्याकर्षणमुत्तमम् ।
येन विज्ञातमात्रेण सुखं सम्पद्यतेऽद्भुतम् ॥१॥ प्रणवं मायया युक्तं कमलायुतमेव च । ___ कलिकुण्डमुद्यतं चापि स्वामिने वशमानय ॥२॥ पुनरानय स्वाहेति मन्त्रः पार्श्वजिनाग्रतः ।
त्रिरात्रं साधितः पुष्पैरयुतेन वशंवदः ॥३॥ प्रणवं कामबीजं च मायाबीज तथैव च । ___ अधोरेफयुतं शून्यं वाग्बीजेन प्रसंयुतम् ॥४॥ मायावाग्भवबीजेन सहिता मायया पुनः।
शून्यं रेफेण संयुक्तं सपासं सविसर्गकम् ॥५॥ श्रीभपराजितदेव्या मन्त्रोऽयमपराजितः ।
लक्षत्रितयजापेन सिद्धिं याति सुनिश्चितम् ॥६॥ पिण्डाकृष्टिं फलाकृष्टिं द्रव्याकृष्टिं च कामिताम् ।
वस्त्राद्याकर्षणं सर्व कुरुते नात्र संशयः ॥७॥ वश्या भवन्ति कामिन्यो भ्रश्यत्परिहिताम्बराः ।
आजन्म दास्यभावं च भजन्ते नात्र संशयः ॥८॥ यद् यत् कामयते सर्व तत् सद्यस्तस्य आयते ।
मन्त्रराजप्रसादेन फलमस्य न संशयः ॥९॥ प्रणवं पार्श्वनाथाय मायाबीजं तथैव च ।
एवं लक्षप्रजापेन मन्त्रोऽयं सिद्धथति स्फुटम् ॥१०॥ नारीणां पुरुषाणां च भूपतीनां विशेषतः ।
आराध्यमानो यत्नेन दशाहेन वशङ्करः ॥११॥ सहस्रमेकं यत्नेन दशाहं प्रतिवासरम् ।
पदभ्रष्टो जपेद् यस्तु स सद्यो लभते पदम् ॥१२॥ वाञ्छितानि च जन्तूनां फलान्यस्य प्रभावतः ।
कल्पद्रोरिव जायन्ते नानारूपाणि नित्यश: ॥१३॥ पाशं पाशयुतं शून्यं विषघ्नं मङ्गलं तथा।
कल्याणं चेति मन्त्रोऽयं पार्श्वयक्षाभिधानतः ॥१४॥ देयोऽयं भक्तियुक्ताय सूर्यचन्द्रोपरागयोः।
दीपोत्सवेऽथवा मन्त्रो रहस्सु गुरुपूजया ॥१५॥
For Private And Personal Use Only