________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
अनुभवसिद्धमन्त्रद्वात्रिंशिका। [ परि० ३० चीर्णैरपि चिरं कालं तपोभिरमलैः सदा ।
कश्चित् प्राप्यते पुम्भिः महामन्त्रो महागुणः ॥१६॥ अनाख्येयमसाधूनां साधूनामपि यत्नतः।
कथ्यमेकान्तदेशेषु मन्त्रस्यास्य स्वरूपकम् ॥१७॥ मूलमन्त्रोऽपि व्याख्येयो महागुणविवर्द्धनः ।।
येन विज्ञातमात्रेण सम्पदः सर्वतोमुखाः ॥१८॥ त्रिभुवनस्वामिनी विद्यां त्रिभुवनस्वामितास्पदम् ।
विद्यां स्मरत हे धीरा! यद्यक्षयसुखेच्छवः ॥१९॥ लक्षकस्य प्रजापेन प्रसूनैर्जातिसम्भवैः ।
दशांशहोमतो याति सिद्धिं विद्या प्रसाधिता ॥२०॥ इत्याचार्यश्रीभद्रगुप्तविरचितायामनुभवसिद्धमन्त्रद्वात्रिंशिकायां सर्वकर्मकर
मन्त्राष्टकवर्णनो नाम प्रथमोऽधिकारः॥१॥
For Private And Personal Use Only