________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० २८]
श्रीपद्मावतीकवचम्
१११
वाञ्छितं पूरयत्याशु पद्मा सा पातु सर्वतः। इदं तु कवचं देव्या यो जानाति स मन्त्रवित् ॥ ८॥ राजद्वारे श्मशाने च भूतप्रेतोपचारके । वन्धने च महादुःखे भये शत्रुसमागमे ॥९॥ स्मरणात् कवचस्यास्य भयं किञ्चिन्न जायते । प्रयोगमुपचारं च पद्मायाः कर्तुमिच्छति ॥ १० ॥ कवचं प्रपठेदादौ ततः सिद्धिमवाप्नुयात् । भूर्यपत्रे लिखित्वा तु कवचं यस्तु धारयेत् ॥११॥ देहे च यत्र कुत्रापि सर्वसिद्धिर्भवेद् ध्रुषम् । शस्त्राग्निजं भयं नैव भूतादिभयनाशनम् ॥ १२॥ गुरुभक्ति समासाद्य पद्मायाः स्तवनं कुरु । सहस्रनामपठने कवचं प्रथमं कुरु ॥१३॥ नन्दिना कथितं देवि! तवाग्रे तत् प्रकाशितम् । साङ्गता जायते देवि! नान्यथा गिरिनन्दिनी ॥१४॥ इदं कवचमज्ञात्वा पद्मायाः स्तौति यो नरः। कल्पकोटीशतेनापि न भवेत् सिद्धिदायिनी ॥ १५ ॥
THEATRIOUS
For Private And Personal Use Only