________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट २८ श्रीपद्मावतीकवचम् ।
भगवन् ! सर्वमाख्यातं मन्त्रं यन्त्रं शुभप्रदम् । पद्मायाः कवचं ब्रूहि यद्यहं तव वल्लभः ॥१॥ महागोप्यं महागुह्यं पद्मायाः सर्वकामदम् । कवचं मोहनं देवि ! गुरुभक्ताय दीयते ॥२॥ राज्यं देयं च सर्वस्वं कवचं न प्रकाशयेत् । गुरुभक्ताय दातव्यमन्यथा सिद्धिदं न हि ॥३॥ ऐं बीजम् । क्ली शक्तिः । हँसौ कीलकम् । पद्मावतीप्रीत्यर्थ जपे विनियोगः।। ॐ परब्रह्मणे नमः शिरसि । अनुष्टुप्छन्दो यो नमः मुखे । श्रीपद्मावतीशक्तिदेवतायै नमः हृदये। आं बीजाय नमः कण्ठे । ह्रीं शक्तये नमः गुह्ये । क्राँ कीलकाय नमः पादयोः। श्रीपद्मावतीकवचसिद्धयर्थे जपे विनियोगः॥ ॐ पद्मा बीजं शिरः पातु ललाटं पञ्चमी परा । नेत्रे कामप्रदा पातु मुखं भुवनसुन्दरी ॥४॥ नाशिका नागनाथश्च जिह्वां वागीश्वरी तथा। श्रुतिरूपा जगद्धात्री करौ हृत् हिमवासिनी ॥५॥ उदरं मोहदमनी कुण्डली नाभिमण्डलम् । पार्श्व पृष्ठं कटिं गुह्य शक्तिस्थाननिवासिनी ॥६॥ ऊरू जो तथा पादौ सर्वविघ्नविनाशिनी । रक्ष रक्ष महामाये पद्मे ! पद्मालये शिवे ॥ ७ ॥
For Private And Personal Use Only