________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिशिष्ट २७ श्रीधराचार्यविरचितः श्रीपद्मावतीस्तोत्रम्
ॐ जयन्तीभमातङ्गी सर्वदुष्टक्षयंकरी | पद्मासने पद्मदेवी च महापद्मे नमोनमः ॥१॥ देवी त्वं ध्यायिता इन्द्रे पूजिता शिवसंकरे । कृष्णेन संस्तुता देवी महापद्मे नमोनमः ॥२॥ सावित्रि पतिमाराध्य वासुकै सेविता भृशम् । तेषां संतुक्षते देवी महापद्मे नमोनमः ॥३॥ पद्माम्बरधरा देवी पद्मद्रहनिवासिनी ! पद्मायुधधरा नित्यं महापद्मे नमोनमः ॥ ४॥ यस्यां प्रसन्नतां पद्मे तस्यां दारिद्र्यनाशने । जय त्वं सुखदाता च महापद्मे नमोनमः ॥५॥ देवि ! दारिद्र्यदग्धाहं तन्मेसं संकरीभव | चिंतिता वरदाता च महापद्मे नमोनमः ॥ ६ ॥ पद्मावती यस्या गृहे पूजिता जगदीश्वरी । हृदये यस्य वर्तन्ते तस्य सौख्यं निरंतरम् ॥७॥ इदं स्तोत्रं पवित्रं च श्रीधराचार्य भाषितं । एकाग्रमनसा साध्यं तस्य सौख्यं निरन्तरम् ॥८॥ रणे राजकुले चैव दुर्गमे शत्रुसंकटे । महावने महाभीमे विघ्नो यांति दिसो दिसा ॥९॥ अपुत्रो लभते पुत्रं धनार्थी लभते धनं । विद्यार्थी लभते विद्यां सुखार्थी लभते सुखं ॥१०॥
॥ इति श्रीपद्मावतीस्तोत्रं सम्पूर्णम् ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir