________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
श्री गर्भस्तोत्रम्
[परि० २६ रुद्रः शक्तियुतश्च मन्मथकलाकामेश्वरेणेन्दुना ___ नादात्मा च परापरेण भवतान्मत्कामसम्पूर्तये ॥१३॥ सञ्चित्सौख्यमखण्डितं शिवमयं शक्तिस्वरूपोल्लस
त्तार्तीये तव संहतो प्रथमतः सद्वृत्ततोज्जम्भते । शङ्कातङ्ककलङ्कभावजनितं भेदः प्रथातः शिवे
तन्मे पूर्णशशाङ्कमण्डलनिभं कुर्यादशं दूरतः ॥१४॥ कश्चिजन्मशतार्जितेन तपसा तत्पादपद्मद्वये
जातप्रीतिरनन्यभावमनसा लब्ध्वा गुरोः सत्कृपाम् । कं वेद त्रिपुरे तृतीयंशकले कामेश्वराख्यं हरिं ।
पूर्णानन्दविभूतिदं त्रिजगतीवश्यंकरं तं श्रये ॥१५॥ लब्ध्वादेशकराजवीक्षणकृपां त्वां वेद कामेश्वरी
धन्यो यस्त्रिपुरे ! त्वदछिकृपया विश्वात्मसाम्राज्यभूः । लक्ष्मीस्तं वृणुते कटाक्षवशतस्तस्य ज्वरोपप्लवा
नाशं यान्ति सदा विषाणि च महावेतालभूतग्रहाः ॥१६॥ श्रीमत्यम्ब ! विराजते तव परं खण्डं तृतीयान्तिम
बीजं तत्र हरौ हरौ प्रथमतो या रुद्रशक्तिः स्वयम् । संहारैकरसो मनोभवकलावहीन्दुसूरा परा
बिन्दुर्योऽपि परेश्वरो मम सदा कुर्वन्तु ते मङ्गलम् ॥१७॥
१ ॐ स्वर्भूभूः रेखा ३ । स्वः-सामवेदः, भूः यजुर्वेदः, भू:-ऋग्वेदः । पुरुषः, स्त्री, नपुंसकः । सत्त्वम् , रजः, तमः, । ब्रह्मा, विष्णुः, महेशः। कल्पवृक्षः, चिन्तामणिः, कामधेनुः । देवतत्त्वम् , गुरुतत्त्वम् , धर्मतत्त्वम् । ज्ञानम् , दर्शनं चारित्रम् च ।
For Private And Personal Use Only