SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परि० २६ श्री गर्भस्तोत्रम् १०७ लक्ष्मी लक्ष्मिललामधामबहुलां मत्तेभकुम्भोच्छल__ हानाम्भोत्कटपूरपङ्कविकटां देह्यम्ब ! मह्यं यतः । त्वं सृष्टिस्थितिमेदिनी मधुजितः शक्तिविरञ्चेनिजा __ यद्वा वाग्भवमध्यगा विलससि श्रीमत्रिखण्डेश्वरि ! ॥६॥ ह्रींकारादिहराब्जयोनिविलसत्संसारसङ्कोचिनी ___ या बेयारतयेश्वरस्य महिता वागेश्वरी जम्भते । बिन्दौ नादतया च बीजवसतिर्याऽनुत्तरा शाम्भवी श्रीमत्रिपुरसुन्दरी विजयते खण्डे स्थिता वास्तवे ॥७॥ हः कामः शिववीजतो हरिरयं यन्मोहयत्यङ्गना स्थित्या त्वच्चरणप्रसादवशतः श्रीकामराजादितः । मातभक्तिसमीहितं सृजति यद्धैर्य......रं श्चयः। सोऽयं मेऽखिलकाङ्कितं वितरतात् कामेश्वरप्रेयसी ॥८॥ सत्तारूपिणि ! सज्जनैकनिलये ! सौभाग्यसम्पत्प्रदे ! सावित्रीति सरस्वतीति गदिता लक्ष्मीस्त्वमेवासि सा। तत् कामेश्वरशम्भुपत्नि ! मम यत् काङ्क्षाधिरूढं भवेत् तद्देहि त्वरितं तपोभिरपि यद् दुष्प्रापमन्यैरपि ॥९॥ कल्याणं कमलापतिः करुणया कामेश्वरः कांक्षितं दद्यान्मध्यमखण्डतस्तव शवे मध्ये स्थितः कान्मना । कन्दर्पप्रतिमः कलासु कुशलः कल्पद्रुमः कामिनां यस्योच्चारवशेन राजति नरः श्रीमत्त्रिखण्डात्मिके ! ॥१०॥ हस्त्वन्माध्यमखण्डले च वसतिर्योऽम्ब ! द्वितीयस्थिति पुष्णात्येकतयैव चाधिकतया बन्धूकपुष्पप्रभः । सौभाग्यं परमं स मे वितरता वश्या भवेयुर्यतो राजानो वरयोषितश्च निभृताः सौख्यश्रियः सम्मता ॥११॥ लक्ष्यं मे मनसो मनोरमतमं सौन्दर्यसीमालयो बन्धूकप्रभवारुणं करलसच्चापेषु पाशाङ्कशम् । काञ्चीनद्धनितम्बबिम्बसुभगं मध्ये न किञ्चिच्च यत् रूपं ते कुचचक्रवाकखिलसच्चन्द्रालिकं स्तात् सदा ॥१२॥ ह्रींकारे हरमान्मथोन्दुरणितैः श्रीकामराजान्तिगे खण्डे मण्डनमावहन्ति हरयः सङ्कोचतः संस्थिते । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy