________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट १५ देवीस्तोत्रम्
श्रीसरस्वत्यै नमः । श्री 'शारदे ! नमस्तुभ्यं जगद्भवनदीपिके !। विद्वजनमुखाम्भोजभृङ्गिके ! मे मुखे वस ॥१॥ वागीश्वरि ! नमस्तुभ्यं नमस्ते हंसगामिनि !। नमस्तुभ्यं जगन्मातर्जगत्कत्रि ! नमोऽस्तु ते ॥२॥ शक्तिरूपे ! नमस्तुभ्यं कवीश्वरि ! नमोऽस्तु ते । नमस्तुभ्यं भगवति ! सरस्वति ! नमोऽस्तुते ॥३॥ जगन्मुख्य नमस्तुभ्यं वरदायिनि ! ते नमः । नमोऽस्तु तेऽम्बिकादेवि ! जगत्पावनि ! ते नमः ॥४॥ शुक्लाम्बरे ! नमस्तुभ्यं ज्ञानदायिनि ! ते नमः । ब्रह्मरूपे ! नमस्तुभ्यं ब्रह्मपुत्रि ! नमोऽस्तु ते ॥५॥ विद्वन्मातर्नमस्तुभ्यं वीणाधारिणि ! ते नमः । सुरेश्वरि ! नमस्तुभ्यं नमस्ते सुरवन्दिते ! ॥६॥ भाषामयि ! नमस्तुभ्यं शुकधारिणि! ते नमः । पङ्कजाक्षि ! नमस्तुभ्यं मालाधारिणि! ते नमः ॥७॥ पमारूढे ! नमस्तुभ्यं पद्मधारिणि ! ते नमः । शुक्लरूपे नमस्तुभ्यं नमस्त्रिपुरसुन्दरि ! ॥८॥ धीदायिनि ! नमस्तुभ्यं ज्ञानरूपे ! नमोऽस्तुते ।
सुराचिंते ! नमस्तुभ्यं भुवनेश्वरि ! ते नमः ॥९॥ । सरस्वति ! २ श्रीदायिनि !
For Private And Personal Use Only