________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट १४ श्रीजिनप्रभसूरिविरचितं सारस्वतमन्त्रगर्भितं
श्रीशारदास्तवनम्।
ॐ नमस्त्रिदशवन्दितक्रमे ! सर्वविद्वज्जनपद्मभृङ्गिके !। बुद्धिमान्द्यकदलीदलीक्रियाशस्त्रि ! तुभ्यमधिदेवते ! गिराम् ॥१॥ कुर्वते नभसि शोणशोचिषो भारति ! मनखांशवस्तव । नम्रनाकिमुकुटांशुमिश्रिता ऐन्द्रकार्मुकपरम्परामिव ॥२॥ दन्तहीन्दुकमलश्रियो मुखं यैर्व्यलोकि तव देवि ! सादरम् । ते विविक्तकवितानिकेतनं के न भारति ! भवन्ति भूतले ? ॥३॥ श्रीन्द्रमुख्यविबुधार्चितक्रमां ये श्रयन्ति भवतीं तरीमिव । ते जगजननि ! जाड्यवारिधिं निस्तरन्ति तरसा रसास्पृशः ॥४॥ द्रव्यभावतिमिरापनोदिनी तावकीनवदनेन्दुचन्द्रिकाम् । यस्य लोचनचकोरकद्वयी पीयते भुवि स एव पुण्यभाक् ॥५॥ विभ्रदङ्गकमिदं त्वदर्पितस्नेहमन्थरदृशा तरङ्गितम् । वर्णमात्रवदनाक्षमोऽप्यहं स्वं कृतार्थमवयामि निश्चितम् ॥६॥ मौक्तिकाक्षवलयाब्जकच्छपीपुस्तकाङ्कितकरोपशोभिते ! । पद्मवासिनि ! हिमोज्ज्वलागि वाग्वादिनि ! प्रभव नो भवच्छिदे ॥७॥ विश्वविश्वभुवनैकदीपिके ! नेमुषां मुषितमोहविप्लवे ! । भक्तिनिर्भरकवीन्द्रनन्दिते ! तुभ्यमस्तु गिरिदेवते नमः ॥८॥ उदारसारस्वतमन्त्रगर्भितं जिनप्रभाचार्यकृतं पठन्ति ये । वाग्देवतायाः स्फुटमेतदष्टकं स्फुरन्ति तेषां मधुरोज्ज्वला गिरः ॥९॥
For Private And Personal Use Only