________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पठितसिद्धसारस्वतस्तवः।
[परि० १३ विद्या विस्फुरति स्फुटं हितरतिर्यस्या विशुद्धा मतिः
सा ब्राह्मी जिनवक्त्रवज्रललने लीना तु लीलातु माम् ॥५॥ ॐ अर्हन्मुखपद्मवासिनि ! शुमे ! ज्वालासहस्रांशुमे ___ पापप्रक्षयकारिणि ! श्रुतधरे ! पापं दहत्या शुभे ।
क्षा क्षी झू वरबीजदुग्धवले ! वं वं वह स्वावहा ___ श्रीवाग्देव्यमृतोद्भवे ! यदि भवे मे मानसे सा भवे ॥६॥ हस्ते शर्मदपुस्तिकां विदधती सत्पात्रकं चापरं ___लोकानां सुखदं प्रभूतवरदं सज्ञानमुद्रं परम् । तुभ्यं बालमृणालकन्दललसल्लीलाविलोलं करं
प्रख्याता श्रुतदेवता विदधती सूक्ष्मं नृणां सूनृतम् ! ॥७॥ हंसो हंसोतिगर्व वहति हि विधृता यन्मयैषा मयैषा
यन्त्रं यन्त्रं यदेतत् स्फुटति सिततरां सैव यक्षावयक्षा । साध्वी साध्वी शिवार्या प्रविधृतभुवना दुर्धरा या धराया
देवी देवीजनार्थ्या रमतु मम सदा मानसे मानसे सा ॥८॥ स्पष्टपाठं पठत्येतत् ध्यानेन पटुनाष्टकम् । अजस्रं यो जनस्तस्य भवन्त्युत्तमसम्पदः ॥९॥
For Private And Personal Use Only