________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट १३
साध्वीशिवार्याविरचितं पठितसिद्धसारस्वतस्तवः।
व्याप्तानन्तसमस्तलोकनिकरैङ्कारा समस्ता स्थिरा,
याराध्या गुरुभिर्गुरोरपि गुरुदेवैस्तु या वन्द्यते । देवानामपि देवता वितरतात् वाग्देवता देवता । ___ स्वाहान्तः क्षिप ॐ यतः स्तवमुखं यस्याः स मन्त्रो वरः ॥१॥ ॐ ह्रीं श्रीप्रथमा प्रसिद्धमहिमा सन्तप्तचित्ते हि या
से ऐं मध्यहिता जगत्त्रयहिता सर्वज्ञनाथाहिता । श्री क्ली ब्ली चरमा गुणानुपरमा जायेत यस्या रमा
विद्यैषा वषडिन्द्रगी:पतिकरी वाणी स्तुवे तामहम् ॥२॥ ॐ कर्णे ! वरकर्णभूषिततनुः कर्णेऽथ कर्णेश्वरी
ह्रीस्वाहान्तपदां समस्तविपदां छेत्त्री पदं सम्पदाम् । संसारार्णवतारिणी विजयते विद्यावदाते शुभे
यस्याः सा पदवी सदा शिवपुरे देवीवतंसीकृता ॥३॥ सर्वाचारविचारिणी प्रतरिणी नौर्वाग्भवाब्धौ नृणां ।
वीणावेणुवरक्वणातिसुभगा दुःखादिविद्रावणी । सा वाणी प्रवणा महागुणगणा न्यायप्रवीणाऽमलं
शेते यस्तरणी रणीषु निपुणा जैनी पुनातु धुवम् ॥४॥ ॐ ह्रीं बीजमुखा विधूतविमुखा संसेविता सन्मुखा
ऐं क्ली साँ सहिता सुरेन्द्रमहिता विद्वज्जनेभ्यो हिता।
For Private And Personal Use Only