________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिशिष्ट ४
श्रीपद्मावतीव्रतोद्यापनम्
नमः श्रीपार्श्वनाथाय मोक्षलक्ष्मीनिवासिने । वक्ष्ये पद्मावतीपूजां चतुर्विंशतिअङ्गया (संख्यया ) ॥ १ ॥ मण्डलं कारयेत् सुरिश्चतुर्विंशतिकोष्ठकम् । पञ्चवर्ण महारम्यं रत्नप्रभासमन्वितम् ॥२॥ आदौ गन्धपुटीपूजा पश्चात् स्वगुरुपूजनम् । देवतापूजनं कुर्याद् धर्मकामार्थसाधनम् ॥३॥ कुर्वन् बुद्धया इमां पूजां तस्य विघ्नोपहारिणीम् । वाञ्छितार्थाऽखिलं दद्यात् पद्मिनी सुखदायिनी ॥४॥ ये लोकाः पूजयन्ति भगवति महति देवि पद्माङ्घ्रि भक्त्या दादा ढाकराला जिनपदनिवशि उग्रतेजातिमानी (?) । तेषां सा पापहन्त्री निरुपमसुखदा पुत्रदारादिकल्पा
दायी स्वर्गापवर्गा (न्) धरणिधरपतिदेवनाथादिसेव्या ॥ ५ ॥ ये पूजयन्ति मनकायमानी तेषां जनानां सुखदायकानि । पद्मावतीनाम परं पवित्रं सद्यः फलादान ददाति पूजा ॥ ६ ॥ इति प्रथमं निरुपमपुष्पाञ्जलिः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ श्रीपार्श्वनाथस्तवनम् ।
ह्रीं देवं पार्श्वनाथं धरणिपतिनुतं देवदेवेन्द्रवन्द्यं ह्रींकारं बीजमन्त्रं जगदकलिमलं सर्वोपद्रव्यहारी । ॐ ह्रौं ह्रीं हूँकारनादं अघहरति महाभक्तिरूपं जनानाम् । व्यालीढं पादपीठं कमठशठमतिं माह्वयं पार्श्वनाथम् ॥ १०॥
For Private And Personal Use Only