SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 190 A DESCRIPTIVE CATALOGUE OF कर्मप्रकरणे पाठात् कर्माङ्गत्वमपीप्यते । ज्ञानहेतुत्वमप्यस्य तथोपनिषदीरितम् ॥ तानेव विपरीतान् प्रत्यवरोहान् हुत्वा सञ्चरे पशूनामर्कपर्णमुदस्यति यं द्विष्यात्तस्य सञ्चर (इ)ति । . . . बिभर्तीदं चराचरम् । आत्मत्रयमधिष्ठान(य) सृष्टयादि . (दीनि) करो . (ति) सः ।। तत्र यो ऽसौ संहारकालान्तं देवो ऽधितिष्ठति । कार्यकाले त्वन्या तनूः साच देवस्य घोरा तनूः । तस्यैते तनुवौ घोरान्या शिवान्येति । शक्तिश्च विचित्रा सर्वदा संहारकारिणी। तस्य देवस्य संह→ घोरा बढ्यश्च तनवः ताभ्यो भयनिवृत्यर्थं प्रथमेनानुवाकेन तादृशं देवं तस्योपकारिणी च तनुं नम इत्यादिभिः नमस्कृत्य प्रसादयति । द्वितीयप्रभृतिभिरष्टाभिरनुवाकैर्दैवस्य वैश्वरूपे स्तुति नमस्कारं च करोति । एतहे(तेन)देवस्सु(वं सु)तरां प्रसार(द)यति। दशमैकादश्या(शा)भ्यामभयं याचते। अयं महावाक्यार्थः। नमस्ते रुद्र मन्यव इत्यस्य कश्यप ऋषिः । अनुष्टुप् छन्दः। रुद्रो देवता। आकर्णकृष्टे धनुषि ज्वलन्ती देवीमिषु भास्वती(ति)सन्दधानम् । ध्यायेन्महेशं महनीयवेषं देव्या युतं योगतनुं दधानम् ॥ कृच्छ्रवादशरात्रं चरित्वा एकादशसहस्रं एकादशदिनेषु निरन्तर जपन् कृतपुरश्चरणो भवति । ततो ऽनेन प्रदक्षिणं नमस्कारं च कुर्यात् । ततो दक्षिणामूर्तिसन्निधावेकादशसहस्त्रजपादशेषपापक्षयो भवति । ततो लक्षजपात् सप्तजन्मकृतं पापं नश्यति । दक्षिणामूर्त्यग्रे अग्निं . निधाय घृतपायसं अपयित्वा स्वाग्नौ जुहुयात् साक्षादेवं पश्यति । For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy