SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 A DESCRIPTIVE CATALOGUE OF स्कारौ करोति । एवं सुतरां प्रसीदति । ततो दशमैकादशाभ्यां अभय याचते । अयं महावाक्यार्थः । प्रथमेनानुवाकेन (क्रुद्धं देवं प्रसाद्य) ततो ऽष्टाभिरनुवाकैः किमधिष्ठानमधिष्ठाय देवस्तिष्ठतीत्यजानन् वेद पुरुषः सर्वं चराचरं तदधिष्ठानशङ्कया नमस्कृत्याभ्यामन्या(न्त्या)भ्यामभयं प्रार्थयते । किञ्चित् किश्चित् रूपमधिष्ठाय निग्रहानुग्रहकर्तुतल्लीलया सर्वमिदं विश्वं वश्यं वर्तते । अस्य रुद्रसमुदायस्य एकादशानुवाकस्य रुद्र एव ऋषिः । महाविराट् छन्दः । महादेवो देवता । रुद्रसमुदायस्य पुरश्चरणं कृच्छ्रचान्द्रायणं वा समाप्य प्राकृत्यं कृत्वा ततं एकादशसहस्रमभिमतदिनानि निरन्तरं जप्त्वा कृतपुरश्चरणो भवति । अनेन प्रदक्षिणनमस्कारौ दाक्षणामूर्तिसन्निधौ चरितव्रत एकादशसहस्रजपादशेष पापं नश्यति । तस्यामेव दक्षिणामूर्तिसन्निधौ स्वाग्निमाधाय घृतपायसं श्रपयित्वा जुहुयादेकादशसहस्रं ततस्ताक्षाद्देवं पश्यति । तस्मिन्नेव सर्वतो ऽनिमात्रं कुण्डं कल्पयित्वा कापिलेन घृतेन स्वाग्नौ शतसहस्रं जुहुयात् गाणापत्यं (णपतं) लभते। ___ अनयार्चा पुरश्चरणसिद्धेन ब्राह्मणेन लिङ्गपूजां कारयेत् । लिङ्गस्य दक्षिणे कुण्डं पूर्ववत् कल्पयित्वा स्वाभिमाधायाज्यदूर्वा तण्डुलशमीसमिद्भिः प्रत्येकमष्टशतं जुहुयादेवसन्निधावष्टसहस्र जपेत् । आलयमभितः प्रदक्षिणमष्टसहस्रं तावत् प्रणामं च कुर्यात् । एतैः प्रसन्नो भवति भगवान् प्रसन्नो भवति । नमस्त इत्यस्या ऋचः काण्ड ऋषिः कवषो वा । अनुष्टुप् छन्दः । रुद्रो देवता । हे रुद्र तव सहजाय मन्यवे नमः । अस्त्विति वक्ष्यमाणमन्त्रादिनुषज्यते । रोदयति सर्वमन्तकाल इति रुद्रः । दा-दाने तत्र भवतीति वा । रुत्या श्रुत्या वेदात्मना धर्मादीन् बोधयति प्रापयतीति वा । रुत्या प्रणवरूपया स्वात्मानं प्रापयतीति वा रोख्यमाणो द्रवति प्रविशति मानिति वा रुजं संसारदुःरवं द्रावयतीति वा अशुभद्रावको वा । दरादाजहार पुन - भवमिति वा रुति शब्दं राति ददातीति वा । प्राणो रुद्र इति वा । रुति For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy