________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
184
A DESCRIPTIVE CATALOGUE OF
याज्ञवल्क्योऽपि ॥
सुरापी स्वर्णहारी च रुद्रजापी जले स्थितः । सहनशर्षिजापी च मुच्यते सर्वकिल्बिषैः ।। शुक्रियारण्यकजपः गायत्र्याश्च विशेषतः । सर्वपापहराह्येषा रुद्वैकादशिनी तथा ॥ वेदमेकगुणं जता तदव विशुद्धयति । रुद्वैकादशिनी जता तत्क्षणादेव नश्यति (शुद्धया) ॥ स्नेहाद्रुद्रं सहजता मुच्यते सर्वपातकैः । रेगवान् पापवांश्चैव रुद्रं जता जले स्थितः ।।
रोगात् पापाद्विनिर्मुक्तो महतीं श्रियमाप्नुयात् । आह तुरत्र्यङ्गिरसौ ॥
एकादशगुणान्वापि रौद्रानावत्य धर्मीवन् । महापापैरपि स्टष्टो मुच्यते नात्र संशयः ॥ वसिष्ठोऽप्याह रौद्राणि पवित्राणीति सर्वदा । त्रिमुपर्णाथर्वशिरो महाव्रतजपस्तथा ॥ .
सुवर्णस्यकृन्मत्यों रुद्राध्यायी विमुच्यते । वायवीयपुरााणे ।।
यश्च रुद्रं जपेन्नित्यं ध्यायमानो महेश्वरम् । यश्च सागरपर्यन्तां सशैलवनकाननाम् ॥ सर्वरत्नगुणोपेतां सवृक्षजलशोभिताम् । सर्वर्तुगुणसम्पन्नां ब्राह्मणे वेदपारगे ॥ दद्यात् काञ्चनसंयुक्तां भूमिमोषधिसंयुताम् । तस्मादप्यधिकं पुण्यं सद्रुद्रजपाद्भवेत् ।
For Private and Personal Use Only