SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. सापि पूर्ववदनुज्ञा दाप्यते । हे अनुमते त्वं मामनुमन्यस्व अनुजानीहीत्यर्थः ॥ सरस्वते अनुमन्यस्व । सरस्वती वाचोऽधिदेवता नदी वा । तेर्धातोस्सरस्वती । सा पूर्ववदनुज्ञा दाप्यते । हे सरस्वति त्वमपि मामनुमन्यस्व अनुजानीहीत्यर्थः । अपठितमप्येतन्मध्ये यजुस्त्रयं कर्मानुसन्धानार्थं गृह्यकारेणोक्तमित्युच्यते । स्थाणुरयं भारहारः किलाभूदधीत्यवेदं न विजानाति योऽर्थम् । योऽर्थ इति सकलदेव सवि (त्र) दिर्मन्त्रग्रहणस्यार्थो विधीयते । तत्रार्थाच्छन्दोदेवतादिपरिज्ञानं कर्तव्यम् । तस्मादाह यो ह वा अविदितार्षेय इत्यादि तस्मादेतानि मन्त्रे मन्त्रे विद्यादिति श्रुतिः । तस्माद्य पिच्छन्दोदेवतापरिज्ञानं कर्तव्यम् । एवं " चतुर्विंशत्यक्षरा गायत्री " इत्यारभ्योष्णिगनुष्टुब्बृहतीपस्त्रिष्टुब्जगत्येवं चतुश्शतमुत्कृतिच्छन्द इति यावत् तावद्वेदितव्यः ॥ यजूंषि अपरिमितपदानि अपरिमिताक्षराणीति विज्ञेयानि । परमेष्ठिनः प्रजापतिरिदमार्षमृचामप्येतदेव सामान्येनार्षं द्रष्टव्यम् । देवता विनियोगश्च प्रतिमन्त्रं नियतस्सर्वत्र ज्ञेयः । देव सवितरित्यस्य पर्युक्षणे विनियोगः । अथोऽधुनाभिधीयते । देव सवितः प्रसुवेति यजुरिदम् । यजुषां च विशेषेण विहितच्छन्दो न क्वचित् कुतो दृश्यते । सविता बहून्यप्यत्र क्रियापदानि प्रतिक्रियापदं च मन्त्रसमाप्तिरुक्ता ॥ सविता प्रार्थ्यते ॥ 1 133 प्रवोचं प्रब्रवीमि । किमिति चेदुच्यते । अनागां अनपराधां गां उक्तरूपेण महानुभावां मावधिष्ठ हे देवाः हिंसां मा कुरुत । ओमित्यङ्गीकारे । अहन्तव्येत्यङ्गीकृत्योत्सृजत । हरिः ओम् ॥ वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy