________________
Shri Mahavir Jain Aradhana Kendra
132
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
The
A commentary by Sayanācārya. Same as No. 68. introduction slightly differs from what has been given above as may be seen from the following extracts :
Beginning:
Acharya Shri Kailassagarsuri Gyanmandir
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरस्स्वधाम्ना । अन्यांश्च ह (स्तचर ) णश्रवणत्व गादीन् प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥ वेदार्थप्रतिभानाय त्रय्यात्मानं सदा हरिम् । प्रणमामि जगन्नाथं स मे विष्णुः प्रसीदतु ॥ प्रणिपत्य गुरूनाद्यान् पाठकानार्थकांस्तथा । यत्प्रसादेन जानन्ति प्रवक्तुं मादृशा अपि ॥ सदा स (म) यवैषम्यनिराबाधत्वहेतुभिः । छान्दोग्यमन्त्राप्यं वै गुणं विष्णोविधास्यते ॥ अहं यद्यपि शास्त्रार्थप्रमावाक्योक्तिविप्लवः । तथाप्याश्रयसौन्दर्याज्जनोऽमुष्मिन् प्रपश्यति ॥
―
अदितेऽनुमन्यस्वेत्यादि यजुस्त्रयं पर्युक्षणे विनियुक्तम् । अदित्यादि देवताकम् । अदितिर्देवता । सा हि सर्वत्र कर्मण्यनुज्ञा दाप्यते । हे अदिते त्वं मां अनुमन्यस्त्व अनुजानीहि । गौतमवत् त्वं कर्म कुर्वित्येवं ब्रूहि । त्वयाभ्यनुज्ञातं कर्म कुर्वन्निष्टफलभाग्भवतीति । अनुमतिर्नाम देवता सर्वकर्मणामनुमन्त्रया तथा ह्यनुमतानि कर्माणि क्रियमाणानि फलवन्ति भवन्ति । या पूर्वा पौर्णमासी सानुमतीति (तिरिति ब्राह्मणे पठितत्वात्
कात्यायनवचनाच्च
राकानुमतिसंज्ञां (इं) तु पौर्णमासोद्वयं विदुः । राका सम्पूर्णचन्द्रा स्यात् कलोनानुमति स्मृता ॥
For Private and Personal Use Only