SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 126 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF तत्कटाक्षेण तद्रूपं दधद्बुकमहीपतिः । आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने ॥ ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात् । कृपालुस्सायणाचार्यो वेदार्थं वक्तुमुद्यतः ॥ व्याख्याती ऋग्यजुर्वेद सामवेदेऽपि संहिता | व्याख्याता ब्राह्मणस्याथ व्याख्यानं सम्प्रवर्तते ॥ अष्टौ हि ब्राह्मणा ग्रन्थाः प्रौढं ब्राह्मणमादिमम् । विशाख्यं द्वितीयं स्यात् ततः सामविधिर्भवेत् ॥ आर्षेयं देवताध्यायो भवेदुपनिषत्ततः । संहितोपनिषद्वंशो ग्रन्था अष्टावितीरिताः || प्रौढादिब्राह्मणान्यादौ सप्त व्याख्याय चान्तिमम् । वंशाख्यं ब्राह्मणं विद्वान् सायणो व्यचिकीर्षति ॥ अस्मिन्ब्राह्मणे कृत्स्नसामवेदगातॄणां प्रवृत्तिरुच्युत्पादनाय सम्म दायप्रवर्तक ऋषयः प्रदर्श्यन्ते । तत्र प्रथमं सर्वत्र ग्रन्थादौ परम्परा - गुरुनमस्कारः कर्तव्य इति सूचयितुं ब्रह्मादिपरम्परागुरुनमस्कारं दर्शयति । नमो ब्रह्मणे नमो ब्राह्मणेभ्यः End: एवं विलक्षणां ऋषिपरम्परां दर्शयित्वा राधाङ्गौतमादारभ्य वंशः समान इत्यूहः । समानं परं समानं परमिति परमवशिष्टं राधादिब्रह्मपर्यन्तं ऋषिजातं समानम् । अभ्यासः आदरार्थः ब्राह्मणसमाप्त्यर्थश्च । वंशब्राह्मणभाष्ये तृतीयः खण्डः ॥ हरिः ओम् ॥ इति वंशब्राह्मणभाष्यं समाप्तम् । इत्यष्टमब्राह्मणभाष्य समाप्तम् ॥ For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy